________________
श्रीधन्यचरित्रम्
षष्ठः
पल्लवः
॥१५॥
| स्वर्ण कोटीरुपार्जयामास । अथ तत्र पुरे राजा-चौरे-तिभयादिरहिते ससुखव्यापारलाभादिसुखपूरितेऽपि अतीवजनाकीर्णवसतिबाहुल्यादिहेतोर्लोकानां पानीयं दुर्लभं जातम् । तदाऽत्र वास्तव्या लोकाः परस्परं वदन्ति-'अस्मिन् नगरे सर्वजातिकं सुखं समस्ति, परन्तु महाजलाशयं विनाऽरतिर्विद्यते' । इति निशिचर्याऽऽदिष्टचरमुखात् श्रुत्वा भव्यतरमुहूर्ते सरः खानयितुं प्रारेभे । अनेकशतसङ्ख्या कर्मकराः सरःखननोद्यमे लग्नाः खनन्ति, तदुपरिस्था राजसेवकाश्च त्वरयन्ति ।
इतश्व राजगृहनगरे स्वगृहाद् धन्ये गते सूर्येऽस्तंगते दिनलक्ष्मीरिव अखिललक्ष्मीरपि त्वरितं गता, निःश्रीकं समस्तमपि गृहं | Kजातम् । तां वार्ता श्रेणिकः श्रुत्वा कोपाकुलो जातः । सभ्यान् वक्तुं प्रवृत्तः-'भो सभ्या ! दृश्यतां खलानां खलत्वम् ! । येन मम *
जामात्रा निजाग्रतास्त्रयोऽमात्रां प्रौढिं प्रापिता अपि अमी खलाः प्रतिदिनं कलहकुटिलतां कृत्वा जामातरमुदवेजयन्। सज्जनावतंसः स संकिलेसकरं' ठाणं दूरओ पडिवज्जए' इत्यागमं श्रुत्वा न ज्ञायते कुत्रापि देशान्तरे गतः । यतो महापुरुषो विरोधस्थाने नैव तिष्ठति । तस्माद् एते महापापा नाऽधिकारयोग्याः''। शिष्टस्य पालनं दुष्टस्य च निग्रहः' इति राजनीतिं स्मृत्वा तान् कारागारे क्षिप्त्वाऽदण्डयत् । सर्वमपि ग्रामादिकं मोषयित्वा यथाजातं कृत्वा त्यक्ताः । ततो धनसाराद्या न केवलं धनैरुज्झिताः किन्तु स्पर्द्धयेव तदनुगैर्यशः कान्तिगुणैरपि त्यक्ताः । नाम्ना धनसारोऽपि अधनसारो व्यचिन्तयत्-'प्राग् उच्चवाणिज्यः कथं नीचवाणिज्यमधुनाऽऽश्रये?'। एवं मनसि परिभाव्य पुत्रान् आहूयेति न्यगदत्-'हे पुत्राः! अधुनाऽत्र स्थातुंन युक्तं, ततो देशान्तरे गम्यते । यतो देशान्तरे निःस्वानामुदरपूर्तिकरणार्थ भिक्षावृत्तिमपि द्राक्षासदृशामाहुः, भिक्षावृत्तिमपि कुर्वतां कोऽपि न किञ्चिद्
१. निश्चले । २. संक्लेशकरं स्थानं दुरतः प्रतिवर्जयेत्।
॥१५॥
in Education among
For Personal & Private Use Only
www.jainelibrary.org