________________
श्रीधन्य
चरित्रम्
॥ १४९ ॥
| भोः स्वामिन् ! यदि मदुक्ते प्रत्ययो न भवति तदा स्थालमेकमानाय्यताम्, तण्डुलाश्चानाय्य भ्रियन्ताम्' । राज्ञा च सैवकेः शालिकणभृतं स्थालमानाय्य सभायां धारितम् । पुनर्धन्येनोक्तम्- 'स्वामिन्! शालिकभक्षिणो पक्षिणो मुच्यताम्' । ततो राजाज्ञया सेवकैः पक्षिगणा मुक्ताः । ततो द्वीपंप्रति 'उल्लोला जलनिधेः कल्लोला इव अभितः स्थालं परिभ्रमन्ति, परंतु तत्स्थालं स्प्रष्टुमलं न जाताः । घटिकामात्रं तदाश्चर्य निरीक्ष्य धन्यादेशेन शालिकणभृतस्थालोपरिस्थे मणावपाकृते रक्षकत्यक्तवाटिकायां मर्कटैः | फलौघा इव पक्षिमिः क्षणमात्रेण ते सर्वेऽपि शालिकणा भक्षिताः । ततो धन्यः प्राह- महाराज ! यथा अनेन पक्षिभ्यः कणा रक्षितास्तथाऽयं पार्श्वस्थो मणिर्वैरिगदे-ति-भूतकार्मणादिभयेभ्यः परिरक्षति, तद् निर्णयः । अथ महीनाथ इति निशम्य, प्रत्यक्षं चाद्भुतं प्रेक्ष्य चमत्कृतचित्तः समस्तजनसमक्षं मणेः, प्रभावं धन्यस्य परीक्षाकुशलत्वं च वर्णयति स्म । ततोऽतिरञ्जितचित्तेन राज्ञा सौभाग्यमञ्जरीनामा निजात्मजा दत्ता, विवाहमेलनतिलकं कृतम्। पुनः प्रशस्तदिनमुहूर्ते महोत्सवपूर्वकं पुत्रिकायाः पाणिग्रहणं | कारितम् । करमोचनवेलायां च पञ्चपञ्चशतप्रमान् ग्रामान् अश्वान् गजेन्द्रांश्च दत्तवान् । ततो धन्येन 'श्वशुरगृहनिवसनमयुक्तम्' इति संप्रधार्य कोशाम्ब्या बहिर्नातिदूरनिकटक्षेत्रे स्वाभिधया धन्यपुरनाम शाखापुरं निवेशितम्। तच अतिसुन्दरहट्टश्रेणिभिर्मनोहरम् अत्युन्नतविविधगवाक्षजालोपशोभिताऽऽवासवृन्दभासुरं पश्यतां दृग्वशीकारकम्, एतादृशमुपपुरं निवेश्य, अनेकान् स्वदेशिनो | वैदिशिकांश्च समाश्वासनपूर्वकमवीवसत् । ते च लोका अल्पशुल्कादिगुणाऽऽहृतहृदया 'अहमहमिकया सहर्षं तत्र निवासं कुर्वन्ति स्म । तत्र च 'अनपायेऽपि प्रभुत्वे सोपायव्यवसायविद् भाग्यनिर्धिर्धन्योऽत्युत्कटपुण्यप्रभावतः स्वल्पेन कालेन अनेकशः
१. अतिचपलाः । २. मणिना । ३. गद - ईति । ४. अहम् अहम् इति यस्यां क्रियायां सा अहमहमिका तया ।
Jain Education International
For Personal & Private Use Only
षष्ठः
पल्लवः
॥ १४९ ॥
www.jainelibrary.org