SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् | षष्ठः पल्लवः ॥१४८॥ किमस्य माहात्म्यमिति न ज्ञायते' । इति तज्जिज्ञासया सेवकै रत्नपरीक्षाविदो नरा आहूय पृष्टाः-'भो भो रत्नवणिजः ! अस्मदीयपूर्वजैरयं मणिः बहुद्रव्यव्ययेन यथाविधि पूजितोऽभृत्, अतोऽस्माभिरपि नित्यं पूजा क्रियते, परं नाऽस्य गुणान् विद्मः तस्माद् अस्य गुणान् ब्रुवन्तु' । इति पृष्टाः, पर तथाविधशास्त्रैदंपर्यार्थविज्ञाऽभावात् पुर्गुणान् पुलिन्दा इव न केऽपि तस्य स्पष्टगुणानाचक्षत। तदा राजा भृत्यैरिति पटहमवादयत्-'यो निपुणाग्रणीः पुमान् अस्य मणिमुख्यस्य प्रत्यक्षप्रत्ययपूर्वकान् गुणान् वक्ष्यति तस्मै सत्यप्रतिज्ञो राजा ग्राम-गजाऽश्वानां पञ्च पञ्च शतानि दास्यति, सौभाग्यमञ्जरी च स्वपुत्रिकां दास्यति' । इत्येवं भूपाज्ञया कौशाम्ब्यां प्रतिचत्वरं प्रतिमार्गं च परीक्षकोपलम्भाय पटहः परिभ्राम्यति । ईदृशे समये धन्यः पटहवादकैर्वाद्यमानं तं पटहनिर्धोषं श्रुत्वा प्राह-'भो भोः पटहवादका! मा वादयत पटहम्, मणेर्गुणान् अहं वच्मि । इति पटहं निवार्य परीक्षकशिरोमणिर्धन्यः पटहवादकैः सह अधिभूपसभं प्राप । राजनं नत्वा यथास्थानमुपविष्टः । वत्सपतिरपि तं सौभाग्याऽधिकरूपं सुन्दराकारं च दृष्ट्वा सबहुमानं क्षेमवार्ता पृष्ट्वा धन्यं प्रति प्राह-'भोधीनिधे! एतद्रत्नपरीक्षणं विधेहि, तद्गुणांश्च स्पष्टभिधेहि। ततो राजादेशं लब्ध्वा धन्योऽपितं मणिं हस्ते लात्वा शास्त्रपरिकर्मितबुद्ध्या तद्गुणान्-ज्ञात्वा च सविनयं भूपं प्रत्युवाच "महाराज! चित्ते विस्मयकारकम् अस्य मणेः प्रभावं भणामि, तत् श्रूयताम् ‘स्वामिन् ! एष मणिर्यस्य मस्तके धृतो भवति तं पुरुषं हन्तुं सिंह गजा इव शत्रवो न शक्ताः । पुनरयं मणिर्यत्पुरस्यान्तरे राजते तस्मिन् नगरे अतिवृष्ट्यनावृष्टिप्रमुखा ईतयः सुभूपेऽनी-तय इव सर्वाण्यपि भयानि च न भवन्ति । पुनरयं मणिर्येन भुजे धारितस्तस्य कदापि कुष्ठादयो महान्तो रोगा अम्बुवाहाश्रितस्याऽचलस्य दावानला इव पराभवं न कुर्वन्ति। पुनरयं मणिर्यस्य कण्ठे धृतो भवति तस्य भूत-प्रेतादयोऽर्कोद्योतेऽन्धकारा इव पराभवं कर्तुं न शक्नुवन्ति। ॥१४८॥ Jain Education in For Personal & Private Use Only Saw.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy