________________
चरित्रम्
षष्ठः पल्लवः
न हि परिमुञ्चति । ततः पितरं स्वगृहनायकं विधाय, रमाऽधिरामान् स्वग्रामांश्च बान्धवेभ्यो दत्त्वा भक्तिं प्रीतिं च दर्शयामास । श्रीधन्य-17 मनस्विनां हि या लक्ष्मीबन्धुभोग्या भवति सैव श्लाघनीय भवति । यतः
"किं तया हि महाबाहो! कालान्तरगतश्रिया। बन्धुभिर्या न भुज्येत अरिभिर्या न दृश्यते" ||२||
इत्येवं धन्येन निजाग्रजास्त्रयो धनादिभिः सत्कृता अपि ते दुर्धियो हर्षस्थानेऽमर्षमेव धारयन्ति । यतो नीतौ अप्युक्तम्
'खळजनो बहुमानादिना सक्रियमाणोऽपि सतां कलहमेव ददाति, यथा दुग्धौतोऽपि वायसः किं कलहंसतां प्राप्नोति?, अपितु ॥१४७॥ नाप्नोत्येव' । अथ कृपालूत्तमो धन्योऽमर्षवाक्शुष्यत्तालून् असौहृदान् ईर्ष्यालून् बन्धन् वीक्ष्य इति व्यचिन्तयत्-यया बन्धूनां
मानसानि भृश मलीमसानि भवन्ति । एषा सम्पदपि सज्जनानां विपद् एव मता-मान्या भवति तस्माद् इमा सम्पदं-त्यक्तवा पुनः पूर्वरीत्या देशान्तरं गच्छामि, येन कामितसम्प्राप्ताः सहोदरास्त्रयस्तुष्टा भवन्तु । इति ध्यावता धनादिभृतं प्रियास्तिस्त्रश्च मुक्तवा, एकं चिन्तामणिं लात्वा, राजादीनपि अनापृच्छय, गुप्तवृत्त्या कथञ्चिदवसरं प्राप्य पुराद् निर्ययौ। __ ततः स पुण्यवान् धन्यो मार्गेऽपि चिन्तामणिप्रभावतः स्वगृहसुखवद् यथेप्सितं सुखमनुभवन्, सुखेन मार्गमतिक्रामन्, बहून ग्राम-नगरा-ऽऽरामादीन् पश्यन्, आर्यस्तिर्यग्भवानतिक्रम्य मनुष्यगतिवत् कौशाम्बीपुरी प्राप्तः । तत्र कौशाम्ब्यां नगर्यां समस्तक्षत्रियशिरोरत्नं शतानीकाऽभिधो राजा राज्यं करोति स्म, यस्याऽतिशूरताप्रकर्षात् खङ्गोऽरिवर्गश्च समं निष्कोशतां प्राप्तौ। अथ तस्य राज्ञो भाण्डागारे सहस्रकिरणाऽभिधो मणिरासीत्। स च परम्परया पूर्वजैः कुलदेवतावत् सर्वदा पूज्यमानस्तिष्ठति। एकदा स राजा तं मणिं पूजयन् वितर्कयितुं लग्नः –'अयं मणिः पूर्वजैः परम्परया पूजितः वयमपि च यथाविधि पूजां कुर्मः, परन्तु
॥१४७॥
in Education Intern et
For Personal & Private Use Only
www.jainelibrary.org