SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् पल्लवः ॥१४॥ "सज्जनस्य हृदयं नवनीतं यद्दन्ति कवयस्तदलीकम। अस्य देहविलसत्यपरितापात् सज्जनो द्रवति नो नवनीतम्" || अथ धन्येन मनसि संप्रधारितम्-"एते मम जनकादय एवं विधरङ्कवेषेणागता गृहे प्रवेशयितु न युक्ताः, यतो गृहगतकर्मकरमनुष्याणामपि बहुमानं न भविष्यति । यत उक्तं भवति-'वेषाडम्बरहीनानां महतामपि अवज्ञा भवति, यतोऽजिनवाससि महेशेऽपि अर्धचन्द्रः किं नाऽभवत् ?' | तस्माद् महेभ्येषु एतेऽधना इति लघुतां माऽऽपन् अत्रापि केनापि न ज्ञातमस्ति, तेन गुप्तवृत्त्या नगरा बहिर्वाटिकायां प्रेषयामि, पश्चाद् महावेषाडम्बरं कारयित्वा महामहेनाऽऽनेष्यामि''। इतिध्यात्वा धन्यो वस्त्राभूषणादि दत्त्वा रथादिषु संगोप्य तान् बहिरप्रेषयत्। अथ च नगराबहिर्वाटिकायां नीत्वा, सौगन्धिकतैलाऽभ्यङ्गपूर्वकं स्नानादि कारयित्वा, वस्त्राऽऽभूषणादिना संभूष्य, विशिष्टसुखासनेषु यथार्ह ते निवेशिताः ततः पूर्वसङ्केतितपुरुषैर्धन्याय वर्धापनिका दत्ता-'स्वामिन् ! नगरोपवने भवस्तातपादादयः समागतास्तिष्ठन्ति ।' ततस्तेभ्यो हर्षवर्धापनिकां दत्त्वा तुरगरथ-भटादिपरिकरितोऽनेकैर्महेभ्यैः सहितो नगरोपवने गतः । दूरात्तातदर्शने जाते वाहनादुत्तीर्य सहर्ष पितुः पादयुगं नत्वोवाच"अद्य मे सफलो 'घस्त्रः अद्य मे सफला क्रिया। अद्य में सफलं वित्तम् अद्य मे सफलं 'जनुः ।।१।। यत्तातपादानां दर्शनं जातम्'। इत्येवं सम्यक् शिष्टाचारपूर्वकं पितरौ बृहद्वान्धवांश्च नत्वा कुशलवार्तामपृच्छत्, सुसज्जनता सुपुत्रता विनीतता च दर्शिता। जनकेनापि हर्षोत्कर्षेण धन्यं महेभ्यांश्चालिङ्गय सुखक्षेमवार्ता पृष्टा । ततो धन्येन पितरं ज्येष्ठबान्धवांश्च सुखासनाऽश्ववाहनादिष्वश्ववारिकां कारयित्वा, मात्रादींश्च रथेषु समारोप्य महोत्सवेन नगरप्रवेशो कारितः, यतश्चातुर्याग्रणीः पुमान् औचित्यं १. मृषा। २ दिवसः । ३. जन्म। ॥१४॥ Jan Education tematon For Personal Private Use Only
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy