SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् षष्ठः पल्लवः ॥१४५॥ अथषष्ठ: पल्लव: अथाऽस्मिन् श्रीवधूकेलिगृहे राजगृहे अन्यदासमये धन्यः सप्तभौमसौधाग्रभूमिषु लीलया यथेच्छं हास्यविनोदादिसुखं विलसन् अस्ति। तस्मिन्नवसरे इतस्ततो विलोकयतश्चतुष्पथे दृष्टिगता। तत्र च अतिदीनदशां प्राप्तान् वनेचरतुल्यान् रङ्ककल्पान् जुगुप्सीयरथ्या पतितपटवस्त्रकन्थायुतान् पितरौ सोदारादींश्च इतस्ततो बम्भ्रमतः सतो विलोक्य विस्मितचित्तश्चिन्तयितुं लग्नःअहो ! कर्मणां गतिः कीदृशी?, यत एतत्सर्वं मम कुटुम्बम् अनेककोटि द्रव्य-धान्यादिभृतगृहे मुक्त्वाऽत्रागतः, पश्चाच्च एतानि सर्बधन-धान्यादीनि भ्रष्टानि दृश्यन्ते, येन ईदशी दुरवस्थां प्राप्तः बम्भ्रमतोऽत्रागताः । अतः सत्यं जिनवचनम्-'कडाण कम्माण न मुक्खमत्थि' । इति विचिन्त्य सेवकैस्तान् आकार्य प्रणम्य च, विनयेन पितरं स्वच्छचित्तो रचिताञ्जलिः सन् पृच्छति स्म-'हे तात ! बहुलक्ष्मीवतां भवतां कथम् ईदृशी निःस्वता समागता?, न हि च्छायाश्रिनानां कदाचित् तापव्यापत्तिर्जायते' । इति धन्यगिरं श्रुत्वा धनसारोऽवक् 'हे वत्स ! तव पुण्यायत्ता लक्ष्मीस्तु गेहतस्त्वया सार्द्धमेव गता, यथाऽतिस्फुटाऽपि चेतना देहतो जीवनैव समं याति। कियद्धनं चौरर्मुषितम्, कियञ्च वह्निना भस्मसात् कृतम्, किमपि च जलेन प्लावितम्, भूमिगतं चाऽहश्यीभूतं कोकिलादिरूपतां प्राप्तम्, एवं सर्व धनादि गतम् । त्वद्दत्ता प्रभूताऽपि सम्पत् चण्डवातेन मेघघटा इव क्षयं नीता, यावद् निजोदरपूरणेऽप्यक्षमा जातास्तदा नगराद् निःसृताः । प्रतिग्रामं भ्रमन्तो 'राजगृहं महानगरम्' इति श्रुत्वाऽत्रागताः । किमपि प्राक्कृतपूण्योदयवशात् तव दर्शनं संजातं, दुर्दशा नष्टा इति तातगिरं निशम्य स्वच्छात्मा धन्यस्तदुःखेन प्रतिबिम्बिते चित्तेऽसुखाश्रितो जज्ञे, यतः सज्जनानाम् ईदृश एव स्वभावो भवति । यतः १. रथ्या प्रतोली। २. कृतानां कर्मणां न मोक्षोऽस्ति। १. भाषायं 'कोयला'। in Education For Personal & Private Use Only
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy