SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् पञ्चमः पल्लवः ॥१४२॥ राजमार्गादिषु इति पटहोऽवादि-'योधी मान् इमं कपटकारकं निरुत्तरीकृत्य श्रेष्ठिनश्चिन्तां निवारयति तस्मै विवादोच्छेदकारिणे पुरुषाय गोभद्रश्रेष्ठी बहुऋद्धियुक्तां स्वसुतां दत्ते, राजापि च बहुतरं सन्मानं दत्ते' । इत्येवं वाद्यमानः पटहो यत्र सतां मान्यो धन्यो निवसति तत्रागतः । तदा धन्येन कौतकाक्षिप्तचित्तेन 'दम्भाऽन्धतमसध्वंसनगभस्तिनिभेन पटहः स्पृष्टः, स्वयं च अश्वमारूह्य राजसभायां गत्वां राजानं नमस्कृत्य तस्थौ । राज्ञा च बहुमानं दत्त्वा धूर्तव्यतिकरः कथितः । धन्येन स्मित्वोक्तम्-'महाराज! भवत्पुण्यप्रभावतो हेलयैव निरुत्तरीकरिष्यामि, नाऽऽतिर्विधेया' । ततो गोभद्रश्रेष्ठिनम् एकान्ते निवेश्य एवमेव वाच्यमिति शिक्षा दत्ता। श्रेष्ठिन् ! आगामिदिने यदा राजसभायां धूर्तः कपटकरणायागच्छेत् तदा मदुक्तयुक्तिभिरुत्तरं दातव्यम्'। इति शिक्षा दत्त्वा विसर्जितः । पुनर्द्धितीयदिवसे राजसभायां नृपाज्ञया सर्वेऽपि राज्यजना आगताः धन्योऽपि यथाऽवसरं तत्रागतः । अथ धूर्तेन अवसरं प्राप्य बह्वीभिर्दम्भयुक्तिभिर्नेत्रमार्गणा कृता तदा गोभद्रः समस्तेभ्यानां नृपस्य च समक्षं वादप्रशान्तये धूर्तमिति प्राह-"भो भद्र ! तव चक्षुर्मम वेश्मनि ग्रहणकस्थाने मुक्तं भविष्यति तत्सत्यम्, तवोक्तिम॒षा नास्ति । परन्तु मम गृहे मजुषासु पुरा लोकैरीदृशज्योतिर्जुषः सहस्त्रशो दृशो ग्रहणकस्थाने मुक्ताः सन्ति, ततो न ज्ञायते किं त्वदीयं चक्षुः?, विनिमयदाने तु शास्त्रे महत्प्रायश्चित्तम् उक्तमस्ति । सर्वेषामपि जननां स्वकीयं स्वकीयं वल्लभं भवति । यदुक्तम्-पृथिव्या मण्डनं नगरम्, नगरस्य मण्डनं धवलगृह, धवलगृहमण्डनं धनम्, धनस्य मण्डनं कायः, कायमण्डनं वक्त्रं वक्त्रस्य च मण्डनं चक्षुषी' ।अतः सदा मनुष्याणां सर्वसारतया नेत्रे भवतः । गाढकार्ये आपतितेऽतिप्रियमपि वस्तुग्रहणकस्थाने दत्त्वा धनं गृह्णन्ति, धनदायकव्यापारिणोऽपि प्रायो ग्रहणकं लात्वैव वृद्धया धनं ददतीति सद्वणिजां पद्धतिः । तस्मात् भवान् द्वितीय चक्षुरर्पयतु, यथा तत्सादृश्यात् अभिज्ञायते दृशम् अहमानये" । इति गोभद्रगिरं श्रुत्वा यथा फालाद् भ्रष्टो वानरः, दावाच्च्युतो द्यूतकृद् वा, तथा स्वचक्षुर्दातुम् अक्षमो धूर्तो १. कपटान्धकारनाशन सूर्यसदृशेण। २. "पृथिव्यां हिं पुरं सारं पुरे गेहं गृहे धनम्। धनेऽर्पि कायः कायेऽपिं वक्त्रं वक्त्रेऽपि अक्षुषी' ||१|| ॥१४२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy