________________
श्रीधन्यचरित्रम्
पञ्चमः
पल्लव:
॥१४१॥
| स्वकीयं साधुवादम् अखण्डितं रक्ष । किञ्च एतावन्ति दिनानि लोचनं विना 'काणः' इत्यभ्याख्यानं लोकेनोक्तं मया निर्वाहितम्, अधुना तु इष्टदेवप्रसत्तेर्धनं प्राप्तं, तत् कथं मम लोचने विद्यमानेऽपि, लोचनमोचनप्रवणे धनलाभे च सत्यपि लोकानाम् अभ्याख्यानवचांसि क्षमे ? । अतो लोचनं देहि । किञ्च, तत्सदृशैः सत्पुरुषैः सारं ग्रहणकं दृष्ट्वा चेद् अपलप्यते तदा जगति शुद्धव्यवहाराय जलाञ्जलिर्दत्तः । जगच्चक्षुः श्रीसूर्यो यदि अन्धकारं करिष्यति तदा प्रकाशकरणे कः समर्थो भविष्यति?।'विधुश्चेद् विषं वर्षिष्यति तदा जगत्तुष्टिः कुतो भविष्यति? । अतो हे गोभद्र ! यदि कल्याणवाञ्छकोऽसि तदा मम लोचनं समार्पय नाऽन्यत् किमपि इच्छामि" । इति धूर्तवचनानि श्रुत्वा गोभद्रः किंकर्तव्यतामूढो धूर्तप्रज्ञापनायै महेभ्यान् प्रेरयामास । ततस्तैर्व्यवहारिभिः सामदामाद्युपाया बहीभिर्युक्तिभिः प्रयुक्ताः परम् अस्मिन् धूर्ते क्षणद्युत्यग्नौ मेघा इव व्यर्था अभवन् । धूर्तेनाऽपि कपटनटकलां कुर्वता भूपसभां गत्वा प्रसभं कालहानिवचनानि तथा व्यङ्गाद्यर्थगर्भितानि प्रयुक्तानि यथा भूपसभा शोभना अति सचिवादयस्तं प्रति प्रतिवचो दातुं नाऽलं भवन्ति स्म, सर्वेऽपि तङ्घर्त्तकुयुक्तिगहने दिग्मूढा भवन्ति स्म । परस्परं च मुखावलोकनं कुर्वन्ति स्म। तदा सकलसभ्यानाम् ईदृशीमवस्थां विलोक्य श्रेणिकोऽभयं स्मरन् तद्विरहव्यथां चाऽनुभवन् इत्युवाच-'भोः सभ्याः ! चेद् यदि अभयो मन्त्री अस्मिन्नवसरे स्यात् तदा कलिकलनेऽकलता न स्यात्, यस्मात् सविता यत्र प्रकाशते तत्र ध्वान्तसन्तिः कथं विलसेद् ? । तत एकेनाऽभयेन विना एषा पर्षद् मम हर्षप्रदायिनी नास्ति, यथा चन्द्रमस उदयं विना रात्रिन शोभामावहति । तदा केनचिद् पुरुषेणोक्तम्-'स्वामिन् ! नगरे पटहोद्घोषणा कार्यते तदाऽस्मिन् महानगरे कोऽपि बुद्धिसेवधिः प्रकटीभूय अस्य सत्याऽसत्यविभागं कृत्वा सर्वं सरलतरं करिष्यति' । तदा राजाज्ञया गोभद्राभिप्रायेण च समस्ते राजगृहनगरे त्रिपथ-चतुष्पथ
||१४१॥
१. चन्द्रः । २. विद्युदग्नौ।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org