________________
श्रीधन्य
चरित्रम्
॥ १४० ॥
नागरजनानां प्रतारणाय उद्यता जाताः । तत्रैकोऽक्ष्णा काणो धूर्तोऽवसरं ज्ञात्वा सम्यग्व्यवहारिवेषं धृत्वा मूर्तिमान् दम्भ इव गोभद्रश्रेष्ठिगृहं गत्वा नत्वा च सविनयं धनैर्धनसदृशं गोभद्रश्रेष्ठिनं प्राह- 'भो गोभद्रश्रेष्ठिन् ! भवतां स्मृतिपथेऽस्ति नवा ?' | श्रेष्ठिनोक्तम्- 'किं तद् ?' धूर्तेनोक्तं पूर्वम् आवयोश्चम्पायां गमनमभूत् । तत्र चम्पायां बहवो व्यापारिणः समागता आसन्, तदाऽहमपि व्यापारं कर्तुं प्रवृत्तः परं यथेप्सितं द्रव्यं विना व्यवसायो न भवतीति चिन्तापरो मनसि सीदन् 'परोपकारप्रवणोऽयं सज्जनः' इति | ज्ञात्वा त्वदुपान्तम् आगतः । कथितं च मया भवन्तं प्रति- 'श्रेष्ठिन् ! मम द्रव्यलक्षेण प्रयोजनमस्ति, अतो द्रव्यलक्षं ददस्व अहं तु त्वदीय द्रव्य लक्षण व्यवसायं कृत्वा लाभं लात्वा वृद्धियतुं तव लक्षद्रव्यं हस्तयोजनपूर्वकं दास्यामि यतो यस्य देयं भवति तस्य दास्यं कृत्वापि दातव्यम् । तस्माद् मम लक्षद्रव्यं समर्पय। यदि मम प्रत्ययो न तदाऽहं देहस्य सारभूतमेकं चक्षुर्ग्रहणकस्थाने | स्थापयामि, यथाऽवसरे देयं दत्त्वा ग्रहीष्यामि' । इत्युक्त्वा लक्षद्रव्यं त्वत्तो मया गृहीतम् । तेन द्रव्येण महान् व्यवसायः कृतः । तत महोद्यमप्रसादाद् बहुतरं द्रव्यम् अवाप्नुवम्, तत सर्व त्वदुपकारेणाहं मन्ये । अतो हे श्रेष्ठिन् ! इदं द्रव्यलक्षं वृद्धियुतं गृहाण, ' विरोचनज्योतिः प्रभं मम लोचनं चाऽर्प्पय" । इति धूर्तवचनानि श्रुत्वा वाचोयुक्तिज्ञेन गोभद्रश्रेष्ठिना बहुभिर्मृदूक्तिभिः प्रज्ञापितोऽपि नामंस्त, प्रत्युत वाचाटतया बहुकुयुक्तियुक्तां वचनरचनां विधाय वितण्डां प्रारेभे । तद्यथा - " बहुभिर्धनकोटिभिर्दुर्लभं मम लोचनं दृष्ट्वा लोभसमुद्रे मा ब्रुड । त्वत्सदृशानां महेभ्यानां न युक्तमेतद् आलपाललपनम् । पुरे यादृशी तव साधुता समस्ति तादृश्या एव रक्षणे तव महत्वम् अखण्डितं स्थास्यति, अन्यथा तु विरुद्धजल्पने विरुद्धभावोत्पत्तिभवनाद् महापदां पदं प्राप्यस्यसि । ततः
१. विरोचनः सूर्यः ।
Jain Education International
For Personal & Private Use Only
पञ्चमः
पल्लवः
॥ १४० ॥
www.jainelibrary.org