________________
श्रीधन्य
चरित्रम्
॥ १३९ ॥
विज्ञप्तिमात्रेणागत्य चित्तप्रसत्त्या गृहीतम् । अतोऽहं धन्यतमः' । इत्यनुमोदयति तावता क्षणाद् आगतया मात्रा बालं स्थालं लिहन्तं दृष्ट्वा 'अहो ! मत्पुत्र एतावतीं क्षुधां नित्यं सहमानो दृश्यते' इति विचिन्त्य पुनः क्षैरेयी परिवेषिता । कथितं च- 'पुत्र ! | क्षैरेयीमनोरथः पूर्णो जातः ?' । तदा बालेन 'ओम्' इत्युक्तम्, परं दत्तदानं नोक्तं यतो दानं दत्त्वा प्रकाशयति स फलं गमयति । ततः क्षैरेयीं भुक्त्वा उत्थितः । रात्रौ पुनः बलिष्ठभोजनाऽजीर्णाद् विसूचिका जाता। महत्या वेदनया पराभूतो बालो विचिन्तयति‘मयाऽस्मिन् भवे किमपि सुकृतं कृतं नास्ति, परम् अद्यैव मम भाग्योदयेन मुनये दानं दत्तं तदेव सफलं भवतु। मम शरणं च तस्यैव | मुनेरस्तु' । इति स्वकृतं सुकृतं मुदा मुहुर्ध्यायन् मृतः । मृत्वा च मगधाऽधिराजधान्यां राजगृहे नगरे दानपुण्यमहिम्ना समस्तमहेभ्य वरिष्टस्य अनेकोटिद्रव्याधिपतेर्गोभद्रश्रेष्ठिनो भार्याया भद्रायाः कुक्षौ पुत्रत्वेन उत्पन्नः । स्वप्ने जनन्या फलितं शालिक्षेत्रं दृष्टम्, श्रेष्ठिने निवेदितम् । श्रेष्ठिनाप्युक्तम्- "अत्युत्तमं स्वप्नमिदम् । अस्यानुभावतस्तव कुलावतंसतुल्यः पुत्रो भविष्यति, तदा च 'शालिभद्र' इति नाम करिष्यामि । इति श्रेष्ठिवचः श्रुत्वा भद्रा सहर्ष गर्भं पालयति । सम्पूर्णे च दिवसे सूर्यवद् भासुरं पुत्रम् अजीजनत् । ततो गोभद्रश्रेष्ठी द्वादश दिवासानि महोत्सवं कृत्वा, स्वजन कुटुम्बादिकं भोजयित्वा परिधाप्य च समस्तस्वजन| ज्ञातिसमक्षं 'शालभिद्र' इति नाम चकार । ततः पञ्चभिर्धात्रीभिर्लाल्यमानो ववृधे। क्रमणे यथावसरे स्वकुलोचितकलाऽपि अधीता । | क्रमाद् युवतिजनमनोहारि यौवनं प्राप्तः । पित्रा द्वात्रिंशतं कन्याः परिणायिताः । ततः पूर्वदत्तसम्यग्दानफलविपाकोदयेन नित्यं सुखलीलया यथेच्छं विलसति स्म ।
अथ अस्मिन्नवसरे राजगृहनगरे ये शठ-विट-कुटिलबुद्धि - दाम्भिक - धूर्तास्ते समस्तबुद्धिनिलयम् अभयं देशान्तरगतं ज्ञात्वा
Jain Education International
For Personal & Private Use Only
पञ्चमः
पल्लव:
॥॥ १३९॥
www.jainelibrary.org