________________
श्रीधन्य
चरित्रम्
॥ १३८ ॥
रुदती स्थविरा इत्यवक्- " हे पुण्यवत्यो भगिन्यः ! एष मम पुत्रः कदापि खानपानादिमनोरथं न करोति । यादृशम् अहं ददामि तादृशमेव भुङ्क्ते, न कदापि हठं करोति । अद्य तु कस्यापि गृहे डिम्भान् क्षैरेयीभोजनं कुर्वतो दृष्ट्वा मां प्रति, पायसभोजनं याचते । अहं तु निःस्वा, विना द्रव्यं क्षैरेयी कुतो भवति ? । अतो रोदनं करोमि । इति तस्या दीनवचनानि श्रुत्वा एकया प्रतिवेश्मिक्या उक्तम्-‘दुग्धं तु अहं ददामि । तदाऽन्ययाऽप्युक्तम्-तण्डुलान् अहं ददामि । तृतीयया कथितम्- 'घृतम् अहं ददामि' । चतुर्थ्याऽप्युक्तम्- ' अत्युज्ज्वलां खण्डाम् अहं ददामि । एवं चतसृभिः प्रातिवेश्मिकोभिः स्वस्वोक्तमानीय दत्तम् । तदा स्थविरा सहर्षम् अस्मै पुत्राय क्षैरेयीं, कर्तु लग्ना, बालस्तु भोजनाशाऽवलम्बेन प्रसन्नचित्तो भूत्वा गृहाङ्गणे क्रीडति । स्थविरया च शीघ्रं क्षैरेयी निर्मिता, कारणानां पुष्टयोगे कार्यं भवत्येव । अथ पुत्रमाहूय भोजनाय निवेशितस्थाले घृत-खण्डादियुतं पायसम् आपूर्य पुत्राय दत्त्वा स्वयं तु दृग्दोशङ्कया अन्यत्राऽगात्, यस्माद् जननीमनः प्रतिक्षणम् अनिष्टशङ्कया विभेति । बालस्तु पायसभृतं स्थालम् अत्युष्णं ज्ञात्वां शीतलीकरणाय हस्तादिना वातादि करोति तावता तस्य सङ्गमस्य गृहाणेऽगण्यपुण्यनिधिः | मासक्षपणपारणकएको मुनिर्भिक्षां भ्राम्यन् बालकस्य भाग्योदयेनाकर्षित इवागमत् । अथ स बालकस्तं मुनिम् आगच्छन्तं दृष्ट्वा, | मुनिं गृहे नीत्वा, विवेकच्छेकचेतसा गोपालेनापि बालेन पायसस्थालमुत्पाट्य अत्युत्कृष्टभावतोऽस्खलितं मुनये ददे । दत्त्वा च मुनिं प्रणम्य सप्ताष्टौ पदानि अनुगम्य पुनः पुनः प्रणामं कृत्वा गृहमागत्य, रिक्तस्थालं गृहीत्वा अङ्गुल्या तल्लग्नं पायसलवं लिहति । मनसि च परिभावयति-'अहो ! मम महान् भाग्योदयः, यद् मुनिना मया वराकेण दत्तं दानं गृहीतम्। यतोऽहं महेभ्यगृहे पश्यामि, | भिक्षार्थम् आगतेभ्यो मुनिभ्यो महेभ्याः शतशो विज्ञप्ति कुर्वन्ति, परन्तु मुनयः किञ्चिद् गृह्णन्ति किञ्चिच्च च गृह्णन्त्यपि । मम तु
Jain Education International
For Personal & Private Use Only
पञ्चमः
पल्लवः
॥ १३८ ॥
www.jainelibrary.org