________________
श्रीधन्य
पञ्चमः
चरित्रम्
पल्लव:
॥१३७॥
॥दानमाहात्म्येशालिभद्रस्य कथा॥ इतश्च, अत्रैव मगधदेशे धन-धान्य-समृद्धिमान् 'इन्द्रियग्रामशर्मदः शालिग्रामनामा ग्रामोऽभूत । तत्र 'कापिलीयप्रणीतिवत् प्रकृतिसरला सत्यकार्यकारिणी भद्रकस्वभावा काऽपि एका धन्याऽभिधा स्थविराऽभवत्। तस्या रौद्रदारिद्रयसङ्गमः संगम इति नाम्ना तनयः सुमुखः 'प्राञ्जलप्रकृतिरभूत्। वृद्धा लोकानां गृहकार्याणि खण्डनपेषणादीनि करोति पुत्रस्तु, तेषां 'गोरूपाणि चारयति, एवं कृत्वा कथमपि निर्वाहं कुरुतः। अथान्यदा कस्मिंश्चित् पर्वमहदिवसे गोरूपाणि गृहीत्वा सङ्गमो वने चारयितुं लग्नस्तदा तत्राऽन्ये डिम्भा आगताः परस्परं वार्ता कर्तु प्रवृत्ताः । एकेन अन्यस्य प्रोक्तम्-'किं त्वयाऽद्य भक्षितम् ?' | तेनोक्तम्-'क्षरेयी' । अन्येनापि कथितम्-'मयाऽपि क्षैरेयी। अद्य पर्वदिवसे केवला क्षैरेयी एव भोक्तव्या भवति, नाऽन्यत्' । तदा सङ्गमाय । पृष्टम्-'किं त्वया भक्षितम् ? तेनोक्तम्-'कूकसढौकलकादि यत्किञ्चित्' । इति श्रुत्वा निन्दितुं लग्नाः-अहो ! अद्य पर्वदिवसे ईदृशं रसविरसं कथं | खाद्यते ?' | 'अद्य तु पायसमेव केवलं भुज्यते' । ततो डिम्भानां वार्ता श्रुत्वा सङ्गमो गृहमागत्य स्थविरां प्रणम्येति यायाचे-'हे मातः ! हितकारिणि ! मह्यं सघृत-खण्डं पायसम् अद्यैव देहि । ततः स्वसुतस्य वचनं श्रुत्वा भृशं रोदिति स्म -'यद् एकस्यापि स्वपुत्रस्य पायसमात्रमनोरथमपि अहं निःस्वा पूरयितुम् असमर्था अतो मम जन्म जीवितं च धिक्' । मातरं रुदतां दृष्ट्वा बालोऽपि गाढं रोदितुं प्रवृत्तः । अथ तयो रोदनं श्रुत्वा दयालवः प्रतिवेश्मिक्य एकतो मिलित्वा स्थविरां प्रति रोदनकारणं प्रपच्छुः । ततो
१. इन्द्रियवृन्दसुखदः । २. साङ्ख्यमतप्रवर्तककपिलमुनिकृतप्ररूपणावत् । ३. साङ्घयशास्त्रप्रसिद्धा 'महान्' इत्यपराभिधाना सत्त्वरजस्तमोगुणात्मिका प्रकृतिः स्वभावश्च । ४. सांख्यमते सदेव कार्यमुत्पद्यते, प्रशस्तं च । ५. नम्रप्रकृतिः । ६. गोवत्सान्।
||१३७॥
Jan Education inlemand
For Personal & Private Use Only
www.jainelibrary.org