SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ १३६ ॥ | वादितः - " भो भो लोकाः ! श्रूयतां राजादेशः, यः कोऽपि रङ्कोऽपि प्रकोपिनं करिवरं योगी अध्यात्म मन इव आलानस्तम्भामानयेत् तस्मै 'वक्त्रजितविधुश्रियं सोमश्रियं स्वसुतां ददाति, पुनः लक्ष्मीलताऽऽरामान् सहस्त्रसङ्ख्याकान् ग्रामांश्च । अतो यः कोऽपि कलावान् भवेत्, स प्रकटीभूय गजम् आलानस्तम्भे नयतु' । इत्येवं सकले पुरे राज्ञा पटहोद्घोषणा कारिता । क्रमेण धन्यगृहाभ्यर्णमागता । धन्येन सा पटहोद्घोषणा गजवशीकरणाङ्गीकारपूर्वकं वारिता । तदा सेवकैः पटहवादनं मुक्त्वा राज्ञोऽग्रे निवेदितम् -'स्वामिन्! एकेन वैदेशिकमहापुरुषेण पटहः स्पृष्टः' । राजापि तत् श्रुत्वा महाश्चर्यपूर्णहृदयस्तत्रागात् । धन्योऽपि यत्र गजोनृखलतां करोति तत्रागतो बहूनि वस्त्राणि त्यक्तवा, वज्रकच्छोटकेन कटिं च बद्ध्वा आसन्नो भूत्वा क्षणं शीर्ष प्रदेशे, क्षणं पुरतः, क्षणं पार्श्वे, क्षणं पृष्ठप्रदेशे, क्षणं वस्त्रगोलकं कृत्वा हन्ति । गजोऽपि तस्य हननाय धावति, तदा धन्योऽपि लघुलाघवकलां कृत्वा पृष्ठे गत्वा ताडयति, गजं च चक्रवद् भ्रामयति । इत्येवं गजदमनशिक्षा कुशलेन धन्येन गजोऽतीव | खेदितः । गजोऽपि इतस्ततः परिभ्रमण - धावन श्रमखेदेन निर्मदो जातः । तदा गजं ग्लानाङ्ग ज्ञात्वा प्लवङ्गवद् उत्प्लुत्य गजपृष्ठे चाऽऽरुरोह । पादेन मर्मणि आहत्य अङ्कुशेन च सरलीकृत्य अनाकुलः सन् आलानस्तम्भं नीत्वा बबन्ध | | मगधाधिपोऽपि तत्कलां दृष्ट्वाऽतिरञ्जितहृदयो जातः । धन्यं बहु स्तुत्वा बहुमानपूर्वकं मनोरमं महोत्सवं कृत्वा तस्मै सुतां सोमश्रियं ददौ, सहस्त्रं च ग्रामान् । अन्यान्यपि सुवर्ण मणि-मुक्तादीनि करमोचने दत्त्वा स्ववचननिर्वाहं करोति स्म । अथ शुष्कवनपल्लवनाद् उद्गता धन्यस्य कीर्तिलता हस्तिभयनिवारणात् समस्तनगरगृहमण्डपे विस्तारं प्राप्ता, यथा भूभृद्भूर्नदी नवाऽम्बुवर्षणाद् वर्धते । १. मुखनिर्जितचन्द्रशोभनम् । २. वानरवत् । ३. पर्वतोद्भूता । Jain Education International For Personal & Private Use Only पञ्चमः पल्लवः ॥ १३६ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy