SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ १३५ ॥ Jain Education International स्वकीयकलागुणैः सर्वेषामीहितरूपो जातः । सभायां स्थितोऽभयो विविध शास्त्र- देश - विज्ञानाद्भुतरसगर्भिताऽवसरोचितवार्तया राजानं रञ्जयति, तेन च राज्ञः प्रीतिपात्रमभयोऽजनि, क्षणमपि राजा पार्धं न मुञ्यति, नित्यमभयोक्तिश्रवणार्थम् ऊर्ध्व कर्णश्च तिष्ठति । इतश्चैकस्मिन् दिवसे राजगृहनगरेऽत्युन्नतमेघघटासदृशो मदेनाऽन्धीकृतान्तः करणः सेचनकनामा करिवरः श्रेणिकस्य महीपते 'गजालानत आलानमूनमूल्य पुरश्रीनूपुराणि गोपुराणि पदे निघ्नन्, सुखश्रियां देहान् गेहान् स्वपदाघातैजीर्णभाण्डानीव चूर्णयन् गृहदेहस्याऽक्षाणि गवाक्षान् शुण्डादण्डघातेन पातयन्, सम्पदां मरट्टानिव अट्टान् चरणैर्घट्टयन्, अयोभारसहस्त्रस्य श्रृङ्खलान् कमलानिव त्रोटयन्, मनोरमान् क्रीडारामान् मोटयन्, सुभिक्षपर्वतकूटान् धान्यमूटान् स्वलीलया बालकः कन्दुकानिव इतस्ततो व्योम्नि उल्लालयन्, आबालगोपालं रोषाद् यम इव मृतिं प्रापयन्, ईदृशः क्रूराकारभीषणः समस्तपुरप्रलयकालनिभः पुरि भ्रमणं चक्रे । अथ तत्र राजाज्ञया बहुभिरुपाय कुशलमन्त्रि - सुभटादिभिस्तन्निग्रहार्थ कृता उपाय 'राजयक्ष्माऽमयेऽखिला वैद्यकृतप्रतिकारा इव विफलतामगुः । तदा धीधनोऽपि श्रेणिकभूपतिः समस्तबुद्धिसम्पदां निधानम् अवन्तीस्थं स्वं प्रधानम् अभयं स्मृत्वाऽतिदूनश्चिन्तयति स्म -'नूनमस्मिन् समये यदि अभयो भवेत् तदाऽमुं करिणं क्षणेन वशमानयेत् । अतो लोकोक्तिः सफला दृश्यते 'एकेन विना जगत् शून्यमिवाभाति' । एवं विचारमूढा राजादयो यावत् स्थिताः सन्ति तावता केनाप्यक्तम्- 'महाराज ! बहुरत्ना वसुन्धराऽस्ति, अतः पटहोद्घोषणा कार्यते तदा कोऽपि गुणिनामग्रणी कार्य करिष्यति' । राज्ञा च एतदनुमतम्, पटहश्चेदृशो १. आलानं बन्धस्तम्भः । २. नगरद्वाराणि । ३. क्षयरोगे। For Personal & Private Use Only पञ्चमः पल्लवः ॥ १३५ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy