SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् पञ्चमः पल्लवः ॥१३४॥ निवेश्य ताम्बूलादिकं दत्त्वाऽग्रे स्थिता दम्भिनी यावता शिष्टाचारवार्ता प्रकाशयति तावता तस्या मदिराया बलेन निद्राऽऽगता। मूर्च्छितचैतन्यो जातस्तदा सा पूर्वरक्षिताऽपरद्वारेण रथे निवेश्य स्वयं चारुह्योज्जयिनीमार्ग प्रति चलिता । स्थाने | चस्थानेऽन्यान्यरथप्ररोहणप्रयत्नेन स्तोकैरेव दिवसैः उज्जयिनीं प्राप्ता । तदा तया मूर्च्छितस्याऽभयस्य हस्तादिकं बद्ध्वा प्रद्योताग्रे ढौकितः । तावता तस्या मदिराया मूर्छाऽप्युत्तीर्णा । आलस्यं त्यक्तवाऽभय उत्थितः सन् इतस्ततः पश्यति, विचारयति च -'किमिदम् अदृष्टपूर्वं स्थानम् ?, केनानीतोऽहम्' ? । इति 'ऊहाऽपोहयति यावता तावता प्रद्योतेनोक्तम्-'भो अभय ! | श्रृणु त्वं मदुक्तम्, यद् नीतिज्ञोऽपि, अनेकशास्त्रकुशलोऽपि, वाक्पटुरपि, परोपदेशकुशलोऽपि, द्वासप्ततिकलापठेनऽपि शुक ओतुना गृह्यते भक्ष्यते च तद्वत् त्वमपि बहुविज्ञानविदुरोऽपि, देश-देशान्तरे बुद्धयाऽन्यसदृशत्वं प्रख्यापयन्नपि, सर्वसमयोत्पन्नमतिरपि मार्जारीकल्पया पण्याङ्गनया गृहीतोऽसि!। अतो धिक् ते बुद्धिचातुर्यम् । तव सर्वसमयसावधानत्वं क्व गतम् ?, सत्यासत्यापरीक्षकत्वं क्व गतम्' ? | इति राज्ञोक्तं श्रुत्वाऽभयेन मनसि निर्णीतम्-'नूनमनेन धर्मच्छलेन पण्याङ्गनयाऽहमत्र आनायितः' इति संप्रधार्याऽभयोऽब्रवीत्-'राजन् ! धर्मच्छलादयं बन्धो मम महिम्नां हानिकर्ता न भवति, प्रत्युत अमून उद्दीपयति। किञ्च, अस्माकं देशे कुले च कोऽपि धर्मच्छलेन नेदृशं करोति । सा च क्षत्रियकुलमर्यादापि नास्ति। अथाऽस्माकं तु वरं जातं यद् अनेन कारणेन मातृष्वसृ-पत्योर्दर्शनं संजातम् । अद्यैव श्रेष्ठतरो दिवसः । इति वचनचातुर्यात् प्रद्योतोऽपि प्रसत्तिभाग जातः । यथा कलावान् चन्द्रः शुक्रगृहे स्थित उच्चत्वं प्राप्नोति तथा शत्रुगृहे स्थितोऽप्यभयः १. ऊहापोह करोति । २. मारिण। ३. महिस्त्रः । ॥१३४॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy