SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् पञ्चमः पल्लवः ॥१३३॥ गुणरञ्जितहृदयो गृहमागतः । प्रभाते पुनः सपरिच्छदस्तस्या आलयं गत्वा, सपरिच्छदां तां निमन्त्र्य, स्वगृहे नीत्वा, विविधरसवत्यां भोजनायं बहुमानपूर्वकं मन्त्रिणा भोजनमण्डपे उपवेशिता । मन्त्री यां यां रसवतीं परिवेषयति तदा सा दम्भेन पुनः पुनः कल्पा | (प्या)-ऽकल्प (प्य) कालाऽतिक्रम-भेल-सम्भेलादिदूषणानि पृच्छति, तथा तथा मन्त्री तदुपरि गुणरागेण रञ्जितो भवति । अथ सा दम्भिनी विधिपूर्वकं भोजनं कृत्वा उत्थिता । मन्त्रिणा दीयमानं ताम्बूलादिकं नाऽऽदत्ते । 'धर्मबन्धो ! किमस्माकं | ताम्बूलशोभया ? ताम्बूलं तु श्रीजिनाज्ञाऽविरुद्धजल्पनमेव, द्रव्य-ताम्बूलं तुमया त्यक्तम् । ततो मन्त्रिणा विविधभूषण-वस्त्रादिना परिधाप्यमाना वैराग्यभावनापूर्वकं यथायोगं वस्त्राऽऽभरणादि गृहीत्वा मन्त्रिणं च स्तुत्वा स्वस्थानं गता। पुनर्दिनद्वयान्तरे मन्त्रिगृहे गत्वा सा दम्भिनी प्राह-हे धर्मबन्धो ! अद्य भगिन्या विज्ञप्तिरङ्गीक्रियताम् । तदाऽभयेनोक्तम्-'उच्यतां सुखेन भगिन्या। तयोक्तम्'अद्य भोजनाय मदुत्तारकेऽनुग्रहः कर्तव्यः यथा मम जन्म जीवितव्यं च सफलं भवेत्। भगवदागमने दरिद्रिणां निधानलाभ अत्युग्रो मे मनोरथतरुः सफलो भविष्यति' । तदा सरलाशयेन धर्मप्रियेण अभयेन 'ओम्' इत्युक्तवा विसर्जिता । तया च उत्तारके गत्वा यत् चिन्तितं तत् कृतम् । यथावसरेऽभयः स्वल्पपरिच्छदो भोजनाय आगतः । तदा दम्भिन्या अत्यादरभावो दर्शितः । मन्त्र्यपि तया दत्तासने उपविष्टः सेवकास्तु बहिारान्तरे स्थिताः । क्षणं धर्म-मार्गानुयायिनी वार्ता कृत्वा मन्त्री उत्थापितः । ततोऽभ्यङ्गस्नानपूर्वकं भोजनाय उपवेशितः। विविधभक्त्या रसवतीं परिवेषयन्त्या तया धर्ममार्गानुयायिकल्प्याऽकल्प्यवार्ता तथाऽवतारिता यथाऽभयस्य दम्भलेशोऽपि मतिपथे नायातः । भोजनान्ते दधिप्रतिरूपिकां चन्द्रहासमदिरामपि पायितः। भोजनान्तरं सम्यगासने ॥१३३॥ १.तिक्रान्त प्र.। Jan Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy