SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् पञ्चमः पल्लवः श्रुत्वा पित्रादीन् आपृच्छय श्रीसिद्धाचलादितीर्थवन्दनं कुर्वती । काशिदेशमागता । तत्र श्रीपार्श्व-सुपार्थाभिधयोर्जिनयोः कल्याणकभूमिस्पर्शनं कृतम् । ततोऽग्रे प्रचलन्त्या श्रीमचन्द्रप्रभप्रभुश्चन्द्रावत्यां वन्दितः । तत्र च श्रुतम्-'साम्प्रतं राजगृहपुरवरे यादृशी धर्मोन्नतिर्विद्यते तादृशी क्वापि नास्ति । यत्र परमार्हतः श्रीश्रेणिकराजा शुद्धन्यायमार्गरीत्या राज्यं पालयति । तत्पुत्रः सकलगुणवतामग्रणीः, समस्तबुद्धिप्रपञ्चैकनिधिः, श्रीमजिनागमानुसारी, प्रवृत्तिकुशलो, नित्यं धर्ममातृकरुणापुष्ट्यर्थम् अमारिपटहोद्घोषणातत्परः, समस्तजीवाजीवादिभावज्ञो बहुजीवानाम् आजीविकादिभयहरणाद्यथार्थनामा अभयकुमारसचिवः परमश्रद्धया धर्मामाराधयति' । इत्यादियशःप्रशस्तिं श्रुत्वा हृदयं दर्शनायोत्कण्ठितम् । तद् इयं भाग्योदयेन मनोरथपूर्तिर्जाता। परं यादृशं श्रुतं ततोऽप्यधिकतरं दृष्टम्। धन्या यूयं कृतार्था यूयं, श्रीजिनेश्वरमार्गाराधका यूयमेव दृष्टाः । बहुजल्पेन 'कार्विम्योद्भावनं स्यात् । भवत्सदृशैः प्रभावकैः कृत्वा श्रीमजिनशासनं प्रोद्दीप्यते । अद्य भवद्दर्शनाद् अस्माकं जन्म जीवितं च फलवद् मन्यामहे । हेधर्मबन्धो! त्वं चिरं राज्यं धर्मं च पालय पर्वतायुर्भव"।इत्युक्त्वा विरतायांदाम्भिक्यां धर्मोन्नतिप्रशंसाश्रवणतोषितहृदयोऽभयस्तां प्रत्युवाच-'हे धर्मभगिनि ! त्वमद्य मम गृहे भोजनमङ्गीकुरु यथा मम गृहं गार्हस्थ्यं च सफलं भवेत्' इति निमन्त्रिते सा दम्भिनी जगौ-'हे धर्मबन्धो ! अहं संसारसम्बन्धेन तु कस्यापि गृहे भोक्तुं न गच्छामि, परं धर्मसम्बन्धेन साधर्मिकरीत्या तु यामि । परन्तु अद्य मम श्रीमन्मुनिसुव्रतस्वामिनः कल्याणकभूमिस्पर्शनं जातम्, अतोऽद्य तीर्थोपवासिताऽस्ति अतोऽग्रेन्यदिने भ्रातृचित्तप्रसत्त्यर्थमागमिष्यामि। त्वत्तः किमप्यहं दूरेनाऽस्मि"। इत्युक्त्वा स्वोत्तारके गता। मन्त्रीश्वरोऽपि सर्वं सत्यं मन्यमानस्तद् १. कृत्रिमताप्रकटनम् । २. तेनाग्रे प्र.। ॥१३२॥ Jan Education international For Personal & Private Use Only
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy