________________
श्रीधन्यचरित्रम्
पञ्चमः पल्लवः
॥१३१॥
तस्याः स्तुतिं श्रृणोति स्म । तां श्रुत्वाऽभयोऽपि विचिन्तयति-'काऽपि ग्रामान्तराद् इयं जिनमतावसिताऽन्तःकरणा भक्तिनिर्भरनिभृताङ्गा प्रियधर्मा साम्प्रतमागता दृश्यते। अस्याः सुवर्णपात्रसदृशाया बहुमानकरणे महान् लाभो जायेत्। इयं चोत्तमा साधर्मिकी' । इति निर्णीय चैत्याद् बहिर्मण्डपे निर्गमनं कुर्वती आलापिता-'भगिनि ! कुतः समागमनं भवतीनाम्' । इति श्रुत्वा | दम्भरचनया तया प्रोक्तम्- 'हे धर्मबन्धो ! लोकोदरपुरे भवभ्रमचतुष्पथे मनुजगतिपाट के संसारिजीवज्ञातीयाऽहं | क्षेत्रस्पर्शनयाऽत्रागता' । पुनरभयः प्राह - "भगिनि ! श्रीजिनमतवासितान्तःकरणानाम् ईदृशी एव वस्तुस्थित्या परिभाषा भवति। मया तु त्वदीयजिनस्तुतिश्रवणमात्रेण परीक्षिता 'तीव्रश्रद्धायुक्तेयं श्राविका' । परन्तु अहं व्यवहारनयरीत्या पृच्छामि कस्माद् आगमनं संजातम्" ?। इत्यभयेनोक्ते पुनः सा दम्भविलसितंप्रादुष्करोति स्म - "हे धर्मबन्धो ! पृथ्वीभूषणनाम्नि पुरे सुभद्रश्रेष्ठिनः पुत्री । बालत्वेऽपि पार्श्ववर्तिन्या महत्तरायाः प्रसङ्गाद् अर्हद्धर्मे रुचिः प्रवृत्तिश्च जाता । क्रमेण यौवनं प्राप्ता तदा मत्पित्रा वसुदत्तव्यवहारिपुत्रेण सह विवाहः कृतः । परिणीतया च तेन सह विषमिश्रिताऽन्नतुल्यानि वैषयिकसुखानि भुक्तानि। एवं कियत्यपि गते काले पूर्वकृतभोगान्तरायोदयाद् भर्ता मृतः । तद्वियोगदुःखेन दुःखिताऽहं क्वाऽपि रतिं नाऽलभे । तदा जगन्मातृतुल्यया महत्तरार्यया प्रतिबोधिता-'वत्से ! किं विषादं करोषि ? एष नरभवोऽतीव दुर्लभस्त्वया प्राप्तः, स तु विषयकदर्थनया किया निष्फलो गमितः । अधुना तु विषग्रन्थिगमनतुल्यं कामकदर्थनकारणभर्तुर्मरणम्, अतस्तव जिनमार्गज्ञायाः किं विषादकरणं युक्तम् ? | चित्तं स्थिरं कृत्वा धर्मप्रवृत्तिं कुरु, येन अतिदुर्लभतरप्राप्ता मनुजभव सामग्री सफला भवेत् । अनादिशत्रून् प्रमादान् विमुच्य धर्मैकरतिं कुरुष्व' । इति प्रवर्तिन्या उपदेशेन भर्तृमरणशोकं मुक्त्वा धर्मार्थिनी जाताऽस्मि। तदनु एकदा देशनायां तीर्थयात्राफलं
॥१३१॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org