________________
श्रीधन्यचरित्रम्
॥ १३० ॥
Jain Education International
‘स्वामिन् ! 'वैनतेयपक्षच्छेदने को दक्षधीरपि समीहां कुर्यात् ?, ऐरावणरदोत्पाटने को वा आक्षेपवान् भवेत् ?, को वा शेषशिखरस्थित मणिग्रहणाय यत्नवान् भवेत् ? को वा केसरिके सरान् विकर्त्तितुमीहेत ? । हे भूपते ! शास्त्रनिर्धातनिष्प्रतिमप्रतिभाचतुष्टयनिधिम् अभयं निग्रहीतुं कः सचेतन आग्रही स्यात् ?, न कोऽपीत्यर्थः । तस्मिन्नवसरे काचिद् गणिकाऽवसरं लब्ध्वा राज्ञो 'हृद्दाहहृद् वचनं प्राह-'हे पृथ्वीनाथ ! एतत्कार्यं मामादिश, यथाऽहं तमभयं बद्ध्वा भवच्चरणाग्रे ढौकयामि' । राज्ञा प्रोक्तम्- 'एवं चेत् तर्हि स्वसमीहितसिद्धिं कुरु' । ततो वेश्यया राजादेशं लब्ध्वा मनसि विचिन्ततम्'द्वासप्ततिकलाभिज्ञो बहुशास्त्रपरिकर्मितमतिः सर्वाऽवसरसावधानः सर्वकार्येषु प्रत्युत्पन्नबुद्धिः केनोपायेन वञ्च्येत ? । एकेनैव धार्मिक बुद्धिप्रपञ्चेन वञ्चयिष्यते, यतो महतामपि धर्मक्रियाणां बुद्धिव्यापारणं न भवति, किन्तु सरलतैव मुख्या भवति । अतो धर्मदम्भवलेन वञ्चयामि । पुराऽपि धर्मच्छलेन अनेके वञ्चिताः श्रूयन्ते, अहमपि धर्म शिक्षित्वा वञ्चयामि' । एवं परिभाव्य साध्व्यग्रे गत्वा वन्दनं विधाय धर्मं श्रृणोति पठति च । विचक्षणत्वात् स्तोकैरेव दिवसैरर्हद्धर्मविज्ञा जाता। ततो राजाज्ञया महामायानिधिः उपात्तश्राविकावेषा एषा पणाङ्गना राजगृहपुरं ययौ । पुराद् बहिः शाखापुरे उत्तारकं कृत्वा प्रभाते दीप-धूपा -ऽक्षत-चन्दनकाश्मीरज-घनसारादिपूजाद्रव्याणि गृहीत्वा सपरिकरा पुरान्तश्चेत्यपरिपाट्या चैत्यवन्दनं कुर्वती क्रमेण राजकारि जिनमन्दिरेऽगमत् । श्रीजिनमन्दिरद्वारप्रवेशाद्यवसरे 'निस्सीहि' प्रमुखदशत्रिकाणि सत्यापयन्ती सा पणाङ्गना चैत्ये चैत्यवन्दनं करोति तावत् तत्र अभयोsपि जिन वन्दनार्थमागात् । अथ तत्र वैराग्य- हाव-भावादिपूर्विकां जिनस्ततिं कुर्वतीं तां दृष्ट्वा वैनतेयो गरुडः । २. हृदयदाहनाशकम् । ३. वेश्या । ४ उपनगरं शाखापुरम् 'परा' ।
For Personal & Private Use Only
पञ्चमः पल्लवः
॥ १३० ॥
www.jainelibrary.org