SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् पञ्चमः पल्लवः ॥१४३॥ विलक्षोऽभूत् । एवं धन्यस्य पटीयस्या' तेन प्रयुक्तया धिया धूर्तस्य वाग्बन्धने प्रकटकपटं ज्ञात्वा बहुतरविडम्बनापूर्वकं देशाद् निर्घाटितः । अथ गोभद्रश्रेष्ठी विपदम् उत्तीर्णों राहुदंष्ट्राविनिर्मुक्तचन्द्र इव यशःश्रियाऽधिकतरं शुशुभे। तत् प्रतिगृहं प्रतिजनोक्तं धन्यस्य सुबुद्धिविलसितं श्रुत्वा सोमश्री-कुसुमश्रियौ जहषतुः । गोभद्रतनया सुभद्राऽपि तद्गुणरञ्जिता पाणिग्रहणाय समुत्सुका जाता । स्वजना धन्याय कन्यादानार्थम् उत्कण्ठिता गोभद्रं प्रवणयन्ति । अथ गोभद्रेण सुभद्रा विविधमहोत्सवैः कोट्यधिकधनदानपूर्वकं धनसारसूनवे दत्ता। धन्योऽपितां गुणक्रीतीं राघवो जानकीमिव उपायंस्त। अथ धन्यः प्रभूतोत्साहमन्त्र-शक्तिभिर्भूपतिरिव तिसृभिः प्रियाभिर्युतः परां प्रौढिं प्राप। गोभद्रोऽपि कृतकृत्यो भूत्वा श्रीमन्महावीरसन्निधौ शुद्धं चरित्रं गृहीत्वा सम्यग्विधिपूर्वकं समाराध्य स्वर्गलोके महर्द्धिकदेवो जातः । अथ स देवो ज्ञानेन पुण्यनिधिं पूर्वभवपुत्रं शालिभद्रम् अवगम्य पुत्रप्रेम-पुण्याभ्याम् आकृष्टचित्तः प्रतिवासरम् आगत्य द्वात्रिंशत्प्रियायुक्ताय शालिभद्राय त्रित्रिखण्डयुक्ता दिव्यभोगभृताः त्रयस्त्रिशद् निध्युपमा मुजुषाः प्रतिप्रातः आकाशात् समुत्तारयति । तासु मजुषासु प्रतिमञ्जुषम् एकस्मिन् खण्डे मृगमदादिदिव्यसुगन्धिद्रव्याणि, विविधानि वस्त्राणि च । द्वितीयखण्डे मणिरत्नखचितानि नानाप्रकाराणि स्वस्वचित्तरञ्जकानि दिव्याभरणानि निस्सरन्ति । तृतीयखण्डे विविधोत्तमराजद्रव्यमिश्राणि नानाविधानि घृतपूरमोदकादिसुखासिकाप्रभृतीनि दिव्यभोजनानि, द्राक्षाखर्जूरा-'ऽक्षोटककदल्या-ऽऽभ्र-नारङ्गा-दीनि फलानि, ताम्बूलादीनि च निस्सरंति । ततः प्रतिदिवसं तद्दिनाऽऽगतमजुषागत वस्त्रादीनि स्वस्वभोगेष्वा नयन्ति, गतदिवसाऽऽगतवस्त्रादिनि ॥१४३॥ १. गोभद्रेण। २. धन्याय। ३. भाषायम् 'अखोड' । Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy