________________
श्रीधन्य
चरित्रम्
॥ १२८ ॥
Jain Education International
तत्पुरप्रलयकालशङ्कां मन्वानाः स्थिताः । अथ सर्वोपायप्रवीणबुद्धिः 'भम्भासारस्य नन्दनोऽभयो दम्भात् चण्डप्रद्योतभूपाय गुप्तं | लेखं प्रास्थापयत् । यथा-"स्वस्तिश्रीमद्राजगृहनगराद् यथास्थानस्थितान् पूज्यपादान् प्रति सेवकोऽभयो विज्ञप्तिपत्रं प्राभृतीकुरुते । प्रत्यहं शुभ चिन्तकस्य सेवकस्य प्रणतिर्ज्ञेया परन्तु एका विज्ञप्तिः सोपयोगं वाच्या । तद्यथा हे पूज्य ! शिवादेवी | चिल्लणावद् मे समानपूज्याऽस्ति, अतो हितं श्रृणु-भेदोपायवेदिना मत्पित्रा सर्वेऽपि त्वन्नृपा भेदिताः सन्ति । अर्वाग्दिने तेभ्यो | मत्पिता स्वर्णदीनारनिधिं दत्तवान् । त्वां धर्तुम् आत्मसात्कर्तुम् एष उद्यमः कृतः । ते च त्वां पशुबन्धं बद्ध्वा मत्पितुः समर्पयिष्यन्ति, धनैश्च ते नृपा आत्मानं तर्पयिष्यन्तीति ध्रुवम् । यदि मदुक्ते प्रतीतिर्न स्यात् तदा तेषां पटावासेषु दीनारा निखाताः सन्ति तान् | पश्यतु, यस्मात् पाणिस्थे मणिकङ्कणे दर्पणे कः समीक्षेत " ? । इति लेखार्थमवबुध्य शिवादेवीप्रियोऽपि प्रत्ययार्थम् एकस्य राज्ञो निवासमचीखनत् । तत्र दीनारान् गुप्तकृतान् वीक्ष्य दीनात्मा इति चिन्तितवान्-'अहो अभयस्य सौहार्दम् ! यद् अवसरे ज्ञापितम् । | यदि अयं नाऽज्ञापयिष्यत् तदा मम का गतिरभविष्यत् ? । अतोऽत्र कस्याप्यग्रे कथनं न युक्तम् । सर्वेऽप्येते स्वामिद्रोहका जातास्तेन अस्माकं पलायनमेव युक्तम्' ! इति विचिन्त्य स्वयमेव पलायितः । तं पलायमानं ज्ञात्वा मनसि सन्देहं दधानाः सर्वेऽपि पलायितुं लग्नाः । चरैस्तं व्यतिकरं ज्ञात्वा अभयः श्रेणिकाय निवेदितवान् । 'भोः तात ! अथाऽस्य हस्तिघोटकादिकं यथेच्छं गृहाण' । ततः श्रेणिकोऽपि नश्यतस्तस्य हस्त्यश्वादि आददे । परम्परया देशेषु वार्ता प्रसृता 'चण्डप्रद्योतो नष्टः, श्रीश्रेणिकभूपतिना सर्वस्वं लुण्टितम्' । अथ चण्डप्रद्योतस्त्वरितगत्या नष्टः सन् स्वान्तःपुरेऽविशत् अपरे च नृपा कष्टतः पृष्ठतः प्रापुः चण्डप्रद्योतं प्रति १. श्रेणिकस्य ।
For Personal & Private Use Only
पञ्चमः
पल्लव:
| ॥ १२८ ॥
www.jainlibrary.org