SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् पञ्चमः पल्लवः ॥१२७॥ अथैकदा प्रस्तावे षोडशनृपजेता चण्डप्रद्योतभिधो मालवाधिपतिः मगधाधिपं जेतुम् अतिविकटं 'कटकं कृत्वा मगधं प्रति चचाल । चरैस्तस्य समीपागमनं राज्ञे निवेदितम् । तत् चरोक्तं श्रुत्वा सभयम् अभयमैक्षत । तदा साहसनिधिरभयो भूपं प्राह'स्वामिन् ! सामाधुबायत्रयाऽसाध्ये चतुर्थो दण्डः कर्तव्यः, नान्यथा । यदुक्तम् "पुष्पैरपिन योद्धव्यं किं पुनर्निशितैः शरैः। युद्धे विजयसन्देहः प्रधानपुरुषक्षयः" ||२|| तत्र साम तुन कर्तव्यम्, गर्वोत्सुक्याभ्यां तस्याऽनोयम्। द्वितीय उपायो दानम्, तस्याऽप्यनर्हः, द्रव्यदाने सेव्यसेवकभावः। प्रादुर्भवेत् । लोके 'दण्डो दत्तः' इति गीयेत तदाऽस्माकं मानहानिर्जायत । अत्रोऽत्र तृतीयोपायसाध्यमिदं कार्यमस्ति । हे प्रमो! यथा वैद्येन प्रयुक्ते सुरसायने रोगाः क्षणाद् नश्यन्ति, तथा मया कामितदे भेदोपायरसायने धिया प्रयुक्ते वैरिरोगः क्षणाद् नष्टो भविष्यति । दृश्यतां सेवकस्य बुद्धि कौशल्यम्, सुखेन स्थीयतां तातपादैः, अत्र किमप्यार्तिन विधेया। ___ अथाऽभयेन सूक्ष्मेक्षिकया विलोक्य शत्रुसैन्यनिवेशक्षेत्रे प्रच्छन्नवृत्त्या मुख्यराज्ञः पटाऽऽवासतो यत्र यत्र विष्वक् षोडशराज्ञां पटावासा भविष्यन्ति तत्र तत्र स्थाने खनित्वा उर्वीषु बहुतरं द्रव्यं स्थापितम् एवं सेनापति मन्त्रि-सुभटादीनां निवासस्थानेषु यथार्ह भूमिषु गुप्तं न्यस्तम्। पुन(ल्यादिभिरनुपलक्षितं कृत्वा रक्षितम्। अथांऽनुक्रमेण चण्डप्रद्योतभूपस्य सैनिकैः वाप्यम्बुस्थानं मैनिकैरिव राजगृहपुरं सर्वतः पर्यवेष्टयत । नगरासन्नं सन्यं निषण्णं दृष्ट्वा दैन्यभावमापन्नाः पौरा मीनराशौ स्थिते शनैश्चरे इव ॥१२७॥ १. सैन्यम्। २. क्रियाविशेषणम्। ३. साम-दाने मेद्-दण्डावित्युपायचतुष्टयम्। ४. तीक्ष्णैः । Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy