________________
श्रीधन्यचरित्रम्
पञ्चमः
पल्लवः
॥१२६
ज्ञाता एव । यदुक्तम्-'आचारः कुलमाख्याति' । इत्यादिहेतोर्मे जीवरूपस्य वनस्य 'फल-कुसुमश्रीदायिने तुभ्यं 'कुसुमश्रीकनी दत्त्वा किञ्चन आनृण्यमिच्छामि, तस्मात् कारणाद् एनां मम तनयां कुसुमश्रियं पाणौ कुरु, येन 'कादम्बिनीधारया कदम्बपुष्पमिव मम मनःपुष्पं प्रस्फुलेत्' । इत्येवं पथ्यां सत्यां रुच्यनुकूलां च श्रेष्ठिवाचं धन्योऽपि अमन्यत । तदा श्रेष्ठी कुङ्कुमाऽरुणघोलं कृत्वा कुसुमश्रीप्रदानसत्यङ्काररूपम् अखण्डतण्डुलै सह तिलकं कारयामास । संजाते च श्वसुरसम्बन्धे श्रेष्ठिनाऽति बहुमानपूर्वकं स्वागारे स्थापितोऽपि मानधनोऽसौ धन्यः एकत्र वसनं मानहानिकारणम्' इति हृदि विज्ञाय भाटकगृहं लात्वाऽन्यत्र स्थितवान् यदुक्तम् नीतिशास्त्र'मित्रस्याऽप्यपरस्यात्र,समीपे स्थितिमावहन। 'कलावानपि निःश्रीको जायते लघुतास्पदम" ||१||
चिन्तामणिप्रभावेण यथा यथा व्यापार-धन-कीर्तिभिर्ववृधे तथा तथा 'अण्डजैः फलिट्ठम इव लोकैराश्रितः । अथ उद्वाहार्थं गृहीतप्रशस्तमास-तिथि-नक्षत्र-वासरः श्रेष्ठी अल्पदिनैरनल्पां सामग्री संजोज्य भूरिमहोत्सवैर्विवाहं कर्तुं प्रवृत्तः । धन्येनापि स्वगृहयोग्यः कलयाऽधिकोऽधिको महः प्रवर्तितः । पाणिग्रहणदिवसे श्रेष्ठिना यथाविधि अनर्घ्यमणि-मौक्तिकादिदानपूर्वकं कुसुमश्रीकन्या धन्याय दत्ता । धन्योऽपि तां गृहीत्वा, शिवः शिवया इव, केशवः कमलया इव, सुभ्रवा कुसुमश्रिया सार्द्ध पुण्योपनीतान् पञ्चवैषयिकसुखभोगान् भुञानः सुखेन कालनिर्गमनं करोति।
१.फल-पुष्पशोभादायिने। २. कुसुमश्रीकन्याम् ३. मेघधारया। ४. मित्रं सुहृद्, मित्रः सूर्यश्च । ५. कलासहितः, चन्द्रश्च । ६. पक्षिभिः। ७. उद्वाहः परिणयः - विवाहः । ९. पार्वत्या। ९. लक्ष्म्या।
॥ १२६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org