SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ १२५ ॥ Jain Education International सुरवराऽनुकाररूपः सौभाग्यभृद् रात्रौ 'अत्रौषितस्तने अस्य पुण्यप्रभावेण शुष्कं वनं नन्दननोपमं संजातम्' । इति मनसि निर्धार्य सहर्ष श्रेष्ठिगृहे गत्वा श्रेष्ठिने वर्धापनिका दत्ता- 'स्वामिन् ! युष्मदीयवने कोऽपि तेजस्वी पुरुषो रात्रौ उषितः । तस्याऽनुभावतः शुष्कं वतुं देवरमणोद्यानोपमं संजातमस्ति' । ततः श्रेष्ठी वनपालकोक्तं श्रुत्वाऽतिविस्मितचित्तो विलोकनैकरसिक उपवनं ययौ । तत्र च उद्यानगृहे समासीनं धन्यं ददर्श । समग्रविश्वाऽद्भुताऽभङ्गभाग्यसौभाग्यभाजनं भासुरविग्रहं सर्वसल्लक्षणपूर्णं गुणवृद्धिकृदाख्यातसिद्धं धन्यं दृष्ट्वा श्रेष्ठी विचिन्तयति - नूनम् अस्यानुभावेनैव मम वनं पल्लवितं ज्ञायते, किमु चन्द्रोदयं विना समुद्रजलोल्लासो भवति' ? । इति चित्तान्तश्चिन्तयित्वा विचक्षणवरः स श्रेष्ठी अनातुरं धन्यं मार्गाऽऽगमनसुखकुशलवार्तां पृच्छि स्म । 'भोः सज्जनजनाऽवतंस ! भवदागमनेन जडरूपमपि निर्जीवप्रायमपि इदं वनं नवपल्लवनिर्गमनच्छलेन हर्षितमिव सपुष्पशेखरं जातम् । मम च त्वद्दर्शनामृतसेकेन मनोनयने पल्लविते । अस्मदीयपूर्वोपचितपुण्यप्रबलोदययोगेन मरुस्थल्यां कल्पवृक्षमिव त्वद्दर्शनलाभं मन्यामहे । अतो हे सुभगशिरोमणे ! कृपां कृत्वा गृहं यावद् आगमनप्रयासेन मम मनोरथपूरणानुग्रहं कुरुष्व । एवम् अत्याग्रहं कृत्वा कुसुमपाल श्रेष्ठिना धन्यः स्वगृहं निन्ये, यतो माणिक्यं स्वगुणैरेव यत्र तत्राऽपि मानपूजामश्नुते । अथ च अभ्यङ्गो-द्वर्तन - स्नानादिसादिसामग्रीभिः शरीरशुश्रूषां कृत्वा, चन्दनादिना अङ्गरागं विधाय हयलालापेलवानि वस्त्राणि परिधाप्य, सबहुमानं विविधरसवत्या भोजनं कारयित्वा स्वर्णविष्टरे संस्थाप्य, पञ्च सौगन्धिकं ताम्बूलं दत्त्वा, विविधैरूपचारैरुपचर्य श्रेष्ठिकोऽञ्जलिं कृत्वा सविनयं सगौरवं धन्यं प्रति इत्युवाच भोः सौम्य ! अत्यद्भुतगुणैस्तव गौरवंशता १. 'वसू' धातोः क्तप्रत्यये । २. नन्दसदृशम् । ३. दीप्रशरीरम् । For Personal & Private Use Only पञ्चमः पल्लवः ॥ १२५ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy