SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥१२४॥ छिन्ना दन्तकशकला यशोवृक्षाऽकुरा इव रेजिरे। येन राज्ञा अभयकुमाराख्यः स्वपुत्रो मन्त्रिपदे स्थापितः, तस्मिन् मन्त्रिपदश्रीः सुवर्णे सौरभमिव भृशं शोभामातनोति स्म । यस्य राज्ञो मोक्षजम् अक्षयसुखं दानं समर्थं क्षायिकं सम्यक्तवम् एकांशेन पञ्चमः सिद्धगुणाऽऽविर्भावतुल्यं वर्तते, अतो, जिनवचने, शङ्कितत्वादिदोषरहित इत्यर्थः । पुनर्यो राजा प्रत्यहं स्वर्णमयान् पल्लवः अष्टोत्तरशतसङ्ख्याकान् यवान् कारयित्वा भक्तिभरनिभृतहृदयो वीरजिनेश्वरस्य अभ्यर्णं गत्वा तैरष्टोत्तरशतैर्यवैः स्वस्तिकमापूरति, तदनु भक्तिभरेण नत्वा स्तुत्वा च जिनवचनाऽमृतं पिबति । यदा च वीरविभुरन्यत्र विहृतो भवति तदा तु यस्मिन् ग्रामे स्वामिनः स्थितिर्भवति तत्सम्मुखं सप्ताष्टपदानि गत्वा क्षोभवन्दनत्रिकपूर्वकमभिवन्द्य स्वर्णमययवस्वतिकमापूर्य नत्वा स्तुत्वा च गहमागत्य भोजनादिकं करोति । इत्यादिजिनभक्तिप्रभावतो जिननाम्कर्म बद्ध्वा सोऽनागतचतुर्विंशत्यां श्रीपद्मनाभनामा प्रथमस्तीर्थङ्करो भविष्यति । . अथ तस्मिन्नेव नगरे मगधाधिपस्य तस्य राज्ञोऽतिप्रसत्तिपात्रं याचकजनानां च कल्पसाल इव कुसुमपालनामा श्रेष्ठी * परिवसति स्म । तस्य महेभ्यस्य एकं जीर्ण शटिततरुगणं पुष्प-फल-पत्र-छाया-रहितमुद्यनं समस्ति। अथ मार्गश्रमश्रान्तः स धन्यः सन्ध्यायां तस्मिन्नेव जीर्णोद्याने वासमकार्षीत् । तस्यामेव रात्रौ भाग्यैकनिधिधन्यागमनप्रभावेण जीर्णोद्यानस्थाः शुष्ककाष्ठकल्पा वृक्षा वसन्तागमे बनानीव समुद्गतपुष्प-फल-पत्राः संजाताः । शटितजीर्णप्रायमपि तदुद्यानं नन्दनवनसदृशं जातम् । अथ प्रभाते संजाते वनपालकस्तथाऽवस्थं वनं दृष्ट्वा हार्षितो यावद् इतस्ततो विलोकयति तावता एकस्मिन् शुचिप्रदेशे स्थितं धन्यं प्रातःकृत्यं नमस्कारगुणन-चैत्यवन्दनादिकं कुर्वन्तं दृष्ट्वाऽतिचमत्कृतश्चिन्तयति-'नूनम् एष कश्चिद् भाग्यैकनिधिः | . ॥१२ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy