SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ १२३ ॥ अथ पञ्चमः पल्लव: अथ उदारमुख्योऽसौ धन्यो धरणीधर - धान्य- धनादिशुभवस्तुभिः समृद्धान् 'मागधानिव प्रसन्नया दृष्ट्याऽकृतार्थयत् । ततोऽसौ धन्यः सुरगुरुरिव अहार्यचातुर्यः प्रोच्चपदेप्सया परिभ्राम्यन् क्रमेण राजगृहनगरं प्राप। राजगृहनगरं वर्णयतियस्मिन् नगरे रूपेण मनोहारिणां व्यवहारिणां गृहाणि स्वभित्तिगतमणित्विषा सदा अमरयुतानि विमानानि हसन्तीव भ्राजन्ते । पुनर्यत्र सूर्यकान्तरत्नमयः चन्द्रकान्तमणिमयकपिशीर्षकभूद् विप्रो रवि-चन्द्रोदये खातिकाजलशोष-पोषौ करोति । पुनर्यदीयैः समग्रलक्ष्मीसुषमाऽभिरामैः मणिमयैस्तुङ्गगृहैः गृहीतसारा द्यसुदां विमाना लघुत्वाद् वायुना ऊर्ध्वं नीता इव पुनर्यत्र रत्नमयगृहाङ्गणे उत्तेजिरत्नतोरणके प्रतिबिम्बितमयूररूपे क्रीडामयूरग्रहणेच्छया प्रसारितकरा मुग्धाः प्रस्फोटितकराऽग्रतया विलक्षा भवन्ति - स्वकीयमुग्धत्वं शोचयन्ति । अस्य भुवोऽशेषं गरिमाणं बुधोऽपि वक्तुं कथं शक्नोतु ?, यां त्रिजगत्प्रभुः श्रीवर्धमानस्वाम्यपि स्वस्य पादारविन्दैरपूपुजत्। पुनर्यत्र गृहा उपरिस्थापित ध्वजाऽग्रजाग्रन्मणिकिङ्किणीनां निनादैवैदेशिकान् पृच्छन्ति किं भुवि क्वापि रमाऽभिरामम्, ईदृग् नगरं दृष्टम् ?, समस्ताऽतिशयपूरगुणयुक्तत्वाद् उत्प्रेक्षा । यत्र पुर्यां श्रीहरिवंशविभूषण श्रीमुनिसुव्रतस्वामिनश्चत्वारि कल्याणकानि जातानि तेनेयं नगरी यावत्योपमया वर्ण्यते तत्सर्वं युक्तमेव ज्ञेयम् । | तत्र अष्टादशवर्णरक्षकः समस्तन्यायायवतामग्रणीः मुक्तिसौधाऽग्रनिःश्रेणिरिव श्रेणिकभूपतिरभवत् । यस्य कीर्ति-प्रतापाभ्यां ४ सिता - रुणाभ्यां "श्रीखण्ड - कुङ्कुमाभ्यामिव अर्चिता 'दिग्मृगीदृशो रेजिरे । यस्य राज्ञः कृपाणेन समराङ्गणे गजघटानां १. मागधः सुतुतिपाठकाः । २. देवानाम् । ३. राजगृहस्य । ४. श्वेतरक्ताभ्याम् । ५. चन्दन काश्मीरजाभ्यामिव । ६. दिस्त्रियः । Jain Education International For Personal & Private Use Only पञ्चमः पल्लवः ॥ १२३ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy