SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ १२० ॥ Jain Education Internationa "नपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे । भवेद् नराणां स्त्रीणां ' चान्यकान्ताऽऽसक्तचेतसाम् ||१|| वरं ज्वलदयस्तम्भपरिरम्भो' विधीयते । न पुनर्नरकद्वारं रामाजघनसेवनम् ॥२॥ ३हे भामिनि ! योषित्सङ्गाः सन्ध्याऽभ्ररङ्गतरलाः मनुष्यायुः पुनर्वायुवद् अस्थिरम् । सोऽपि क्रियाविशेषेण द्रव्यानुयोगतो वा स्थिरो भवति, न पुनस्त्रुटितमायुः । भोगविस्तरस्तु नवोत्पन्नरोग इव उद्वेगाय भवति । यत: "भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्नि-भूभृद्भयं दास्ये स्वामिभयं गुणे खलभयं वंशे कुयोषिद्भयम्" । माने म्लानिभयं बले रिपुभयं देहे कृतान्ताद् भयं, सर्वं वस्तु भयाऽन्वितं भुवि नृणां वैराग्यमेवाऽभयम्" ॥१॥ एवं सामान्यतोऽपि कामभोगाः प्रबलदुःखहेतवो भवन्ति, किं पुनर्विकृतविषमिव अतीव भवभ्रमणहेतवः परस्त्रीसङ्गमोत्पन्नाः कामभोगाः ? । हे देवि ! त्वमपि मनः स्थिरं कृत्वा परिभावय, यद् ईद्दशी दिव्यशक्तिः प्रतभूतासुखसंयुता त्वया लब्धा सा कामभोगत्यागफला कामभोगाऽऽसेवन फला वा ? 'कामभोगासक्तानां हि नरक-तिर्यक्ष्वेव उत्पादो भवति । तस्माद् हे नितम्बिनि ! तव वैक्रियदलनिष्पन्ना तनुः अतीव स्वच्छा शुचिर्वर्तते, मम तु पुनः औदारिकदलनिष्पन्ना नित्यं यद्वा तद्वा मल-मूत्र - रुधिराऽस्थिभृता अतीव दुर्गन्धा दुगञ्छनीया । अनयोः संयोगं कथं कर्तुमर्हति ? । तस्माद् हे मातः ! सदाचाराऽङ्कुरोद्गमे 'कादम्बिनी १. अन्यकान्तासु आसक्तचेतसां नराणाम्, अन्यकान्तेषु आसक्तचेतसां च स्त्रीणाम् । २. परिरम्भ आलिङ्गनम् । ३. विचारय । For Personal & Private Use Only चतुर्थः पल्लवः ॥॥ १२० ॥ w.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy