________________
श्रीधन्यचरित्रम्
।
चतुर्थः
पल्लवः
॥११७॥
चन्द्रज्योत्सनाभिर्धवली कृताऽवन्यां तस्यां रजन्यां सकलगुणैकनिधेर्धन्यस्य अनुपमं रूपं सौभाग्यं निर्माणंचाऽत्यद्भुतं विलोक्य तीव्रवेदोदयात् तीव्रकामरागातुराऽभवत् । रागातिरेकाद् गङ्गायाश्चेतसि प्रबलाऽऽकुलता समजनि । यतः पुरुषवेदोदयात् स्त्रीवेदोदयोऽत्यधिकतरो भवति । कामशास्त्रेऽपि 'पुरुषात् षड्गुणः कामः स्त्रीणाम्' इति हि निश्चितम् । एतादृशे दुर्निवारे | स्मशराऽऽपाते सति कः स्थिरो भवेत् ?, जिनगमाऽविद्धकर्णों न कोऽपि इत्यर्थः । अथ सा देवी कामवशा लज्जादिकं मुक्तवा दिव्यरूपा प्रत्यक्षीभूय महता मोहेन धन्यस्य मोहनाय बहून् हाव-भावान् व्यधात्। अमूढलक्ष्यान् कटाक्षांश्च शरानिव तस्योपरि चिक्षेप । तदा धन्योऽपि धीरतामवलम्ब्य अजिब्रह्मरूपसन्नाहं हृदि दधौ । पुनः सा बाहुमूल-त्रिवली-मध्यनाभि-भ्रूकुच-केशादिविभ्रमान् कामस्याऽक्षीणकोषानिव मुहुर्मुहुरदीदृशत् । युवमनोद्रव्यद्रावणे क्षारसदृशास्तया कृता हाव-भावकटाक्ष-विक्षेपादिनाराचाः शुद्धखानीसम्पन्ने वजे लोहघना इव धन्ये विफलीभवन्ति स्म । तदा हावभावैरक्षुब्धं धन्यं दृष्ट्वा | पुनः सा सोन्मदा श्रृङ्गाररसगर्भितां परमोन्मादोद्दीपनगुणाम् अनगाराणामपि क्षोभजनिकां कामिजनमनोवशकरणैकविद्यां वाणीमित्यभाणीत् - 'हे सौभाग्य निधे ! अहं ग्रीष्ममध्याह्वेऽतिस्तोक जलसरसीतापिता "शफरीव अत्यर्थ कामाऽनलज्वालाभिज्वलन्ती तव शरणमागताऽस्मि, अतो दयानिधे ! शीघ्र स्वाओङ्गसङ्गमसुधाकुण्डे मां क्रीडय । ममेप्सितपूरणसमर्थस्त्वम्, इति मत्वा त्वद्गुणाक्षिप्तचित्ताऽहं प्रार्थनां करोमि । त्वया च ममाशा पूरणीया । प्रार्थनाभङ्गे हि महदूषणम् । यतः शास्त्रेऽप्युक्तम्
१.सन्नाहः कवचः। २. कुचविभ्रमान् केशदिविभ्रमांश्च । ३. नाराचो बाणः। ४. मत्सी इव।
॥११७॥
Jan Education intomasional
For Personal Private Use Only
ma.jainelibrary.org