________________
श्रीधन्य
चरित्रम्
चतुर्थः
पल्लवः
॥११६॥
॥ इति सुनन्दा-रूपसेनयोः कथा॥ एवम् असेविता अपि विषया इष्टत्वेन संसारचक्रे दुर्गतिगहने भ्रमयन्ति । तदा इष्टत्वेन सेवमानस्य का गतिर्भविष्यति? | संसारचक्रे विषयाऽपूर्णतायां दुःखं विंदन्ति, पूर्ती च सुखं मन्यन्ते भवाभिनन्दिनो जीवाः । परं न जानन्ति यथा धीवराः पलखण्ड दत्त्वा मत्स्यान्मरणसङ्कटे पातयन्तितद्वद् विषया अपि विषयाऽऽमिषलवं दत्त्वा अनन्तशो मरणसङ्कटे पातयन्ति। एतत्तु महदाश्चर्यम् अनन्तशो भुक्तानपि विषयान् अज्ञानवशगा जीवाः कदापि अनास्वादितानिव सेवमाना माद्यन्ति। पुनर्यथा यथा माद्यन्ति तथा तथा दुष्टकर्मणां स्थितिं वर्द्धयित्वा नरक-निगोदाऽवटे पतन्ति । तस्मात् श्रीजिनवाणीं श्रुत्वा विषय-कषायान् दूरतस्त्यक्त्वा श्रीजिनचरणसेवां ब्रह्मचर्यं च भजस्व'।
इत्येवं मुनिदेशनां श्रुत्वा विषयान् हेयत्वश्रद्धया श्रद्धयता धन्येन महाऽनर्थमूलपरकीयस्त्रीसेवननषेधरूपं स्वदारसन्तोषव्रतं मुनेः पार्थाद् गृहीतम्। ततो धन्य आत्मनो धन्यंमन्यः सहर्ष पुनः पुनर्मुनियुगलं प्रणम्य अग्रे ब्रह्मचर्यभावनां भावयन्मार्गमतिक्रामति । निर्भयं चित्तप्रसत्त्या क्रमेण सुप्रकाशीभवद्भागनिधिरसौ काशीपुरीं प्राप। ततो नगरासन्नसुरसरित्तटे' शुचिप्रदेशे वस्त्रादिकं विमुच्य ग्रीष्मार्कतापेन खेदितसर्वाङ्गोऽसौ तत्खेदनिवारणार्थ रेवायां गज इव सत्तरङ्गायां गङ्गायां जलकेलिं कृतवान्। ततो गतश्रमो भूत्वा यथाप्राप्तमाहारादिकं कृत्वा नवनीतकीमलायां गङ्गातटगतवालुकायाम् आस्तरणं कृत्वा सन्ध्यासमये श्रीमान् अमेयमहिमागारं परमेष्ठिनमस्कारं पठन स्थितः । तावता क्रीडार्थं निर्गता गङ्गाऽधिष्ठायिनी गङ्गानाम्नी देवी तत्राऽऽगता । अथ
१. सुरसरिद् गङ्गा।
॥११६॥
Jan Education in
For Personal & Private Use Only
Mw.jainelibrary.org