SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ११४ ॥ | पुण्यवतामपि पुण्यं विफलं भवति । अस्याश्च दर्शनमात्रेण सर्वथा ऐहिक-पारलौकिकसिद्धिर्भवति । 'पापीयानपि पापान्मुच्यते, सर्वगुणरत्नखानिः । इति विचार्य बदरस्थूलानि स्वाऽज्ञानाऽश्रूणि विमुञ्चन् साध्व्या निकटमागत्य शुण्डेन पुनः पुनः प्रणामं कृत्वा तारस्वरेण विज्ञप्तिं कर्तुं प्रवृत्तः- 'भगवति ! यूयं भवसमुद्रतारणाऽमोघप्रवहणे चारित्रयानपात्रे चटिताः स्तोकेनैव कालेन पारं प्राप्स्यथ परन्तु मम का गतिः ? । प्रथमं तु भगवत्या महत्युपकृतिः कृता, अन्धस्य नयनदानिमिव, यन्मया युष्मच्छक्त्या जातिं स्मृत्वा भवविपाको दृष्टः । दृष्ट्वा च साधनाऽसमर्थतिर्यग्भववेदनाद् भयव्याकुलो युष्मच्छरणमागतोऽस्मि । यत् शुभं भवति तत् करुत' । साध्व्या ज्ञानेन तदाशयं ज्ञात्वोक्तम्- 'भो रूपसेन ! कामपि चिन्तां मा करु । यत् त्वं पर्याप्तपञ्चेन्द्रियोऽसि, स्फुटक्षयोपशमवानसि पञ्चमगुणस्थानप्रापणाऽर्होऽसि । जिनमार्गानुसारिसदृशोऽपि दुर्गति पाताद् मुच्यते तदा शुद्धश्रद्धावतः किं कथनम् ? | अतः श्रीजिनाज्ञायां दृढतां कृत्वा यथाशक्त्या तपः कुरुष्व । यतस्तपोबलेनाऽनेके तिर्यग्गतौ जीवास्तीर्णाः । अतो विषय-कषायवासनां विमुच्य तपस्यायां प्रवणो भव । तेन त्वं दुर्गतिपाताद् निस्तरिष्यसि । इति हस्त्यार्यिकयोरुत्तर- प्रत्युत्तरं श्रुत्वा वृक्षोपरि स्थिता लोकाश्चमत्कारं प्राप्ता वदन्ति 'अहो ! ज्ञानगुणभाण्डागारिकेयमार्या, पश्यन्तु पश्यन्तु, दर्शनमात्रेण हस्ती बोधितः सेवकवत् सविनयं मुखाग्रे स्थित उत्तर- प्रत्युत्तरं करोति ! । अतिकोपनशीलोऽपि समशीलो भूत्वाऽग्रे स्थितः । इयं साध्वी तीर्थरूपा परमोपकारिणी । अतश्चलन्तु भवन्तः अस्या अभिवन्दनं कुर्मः । भयं तु नाऽस्त्येव, सुखेनागम्यताम् । एवं वदन्तो लोका वृक्षेभ्य उत्तीर्य आर्यिकां नत्वा स्तुत्वा च स्थिताः । परित एवं दृष्ट्वा दुर्गगृहमालोपरि स्थिता अपि आगताः सहस्त्रशो १. पापी । Jain Education International For Personal & Private Use Only चतुर्थः पल्लवः ॥ ११४ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy