________________
श्रीधन्य
चरित्रम्
चतुर्थः
पल्लवः
अतः स्नेहबन्धनं त्यक्तवा वैराग्यं भज" । अथ हस्ती इति साध्व्योक्तं श्रुत्वा ऊहापोहं कर्तुं लग्नः 'मया ईदृश्यवस्था कृत्राप्यनुभूता सम्भाव्यते' इत्येवं चिन्तनं कुर्वतस्तदा ज्ञानावरणीयकर्मणां क्षयोपशमगुणेन जातिस्मरणं संजातम् । संज्ञिपर्याप्तकपञ्चेन्द्रियत्वात् सप्ताऽपि भवा दृष्टाः, सर्वमप्यनुभूतं सुख-दुःखं स्मृतिपथमागतम् । तदा वजाहत इव क्षणं जड इव निश्चेष्टितो भूत्वा पुनः सावधानो भूत्वा दीर्घनिःश्वासं विमुच्य हस्तगतं चिन्तामणिमिव शोचयितुं लग्नः – हा ! मया स्नेहान्धेन कामान्धेन दृष्टिरागान्धे च किं कृतम् ? । कोटिचिन्तारत्नाधिकः प्राप्तो मनुजभवो हारितः, दुर्गतिगहनभूषणं भ्रमणं चाऽङ्गीकृतम् । स्वाऽज्ञानवशो' अकृतकुकर्माऽपि कृतकुकर्मणोऽपि अधिकतरं दण्डसङ्कटे पतितः, येन मया साधनविकलं दुर्गतिकारागारं प्राप्तम् । अस्मात् कारागाराद् मां को निष्काशयति ? हा ! मम का गतिर्भविता? । अस्मिन् हस्तिभवेऽपि बहूनि पञ्चेन्द्रियतिर्यग्मनुष्यघातादीनि पापानि कृतानि, अतो मम दुर्गतिनिस्तरणं कुतो भविष्यति? । धन्येयं भाग्यवती, यत् कर्म बद्ध्वा, बुद्ध्वा चोद्धृता । यया दुष्कर्म कृत्वा समस्तदुःखनिवारणैककुशलः साधुधर्मोऽङ्गीकृतः, अतोऽस्याः का भीतिः? । पुनर्धन्येयम्, यया यादृशः स्नेहः कृतस्तादृशो निर्वाहितः यथा च स्वयं स्नेहनिगडान्निर्गता तथा मामपि स्नेहबन्धनाद्मोचयितु मागता। यतोऽस्मिन् स्वार्थिकसंसारे महारौरवदशायां को दुःखनिवारणोपायकरणाय प्रेरयेत्। अतः शास्त्रोक्तिः सत्याऽऽस्त, यत् स्वार्थिकाः संसारिणः, पारमार्थिका मनुयः । जगति बिना मुनि न कोऽपि निष्कारणोपकारकोऽस्ति। ममताऽप्यधुना अस्या शरणावलम्बनेन आयतिशुभं भविता, नान्यं कम्प्युपायं पश्यामि । अत इयं यमुपायं वक्ति स भयाऽङ्गीकर्तव्य इति निश्चयः । यतो मम पापिनो दर्शनमात्रेण
१. -वशेन। २. निर्गत्य मां यति।
Educator
For Personal Private Use Only