________________
श्रीधन्यचरित्रम्
चतुर्थः पल्लवः
॥११२॥
बहिर्निर्गता तदा वटादिमहावृक्षोपरि स्थिता लोका बर्हिर्गच्छन्तीं साध्वीं दृष्ट्वा महता शब्देन वारयन्ति-'मा याहि मा याहि । इति पुनः पुनर्वारयन्ति । सुनन्दा तु किमप्युत्तरं न ददाति, निर्भयं गच्छति । तदा पुनर्लोकाः परस्परं विवदन्ते-'किमियं साध्वी | बधिराऽस्ति!, किमियं ग्रथिलाऽस्ति? किमियं भूताविष्टचित्ताऽस्ति? । यत एतेषु वारयत्सु लोकेषु न निवर्त्तने । पश्यन्त्वस्याः कठोरहृदयत्वम्' ! ततः केनाप्युक्तम्-'इयमार्या सर्वासामार्यिकाणां महत्तराऽस्ति, न कठोरहृदया, नाऽपि कर्णाभ्यां बधिराऽस्ति, न च ग्रथिलाऽस्ति इयं तु गुणवती, बहुश्रुतधरा, देशनामृतदानेन बहूनां विषय-कषायज्वलनं विध्यापयति अस्या दर्शनमात्रेण महत्पुण्यं भवति । एतत्तु जानामि-इयं यत् करिष्यति तद् वरमेव करिष्यति' । पुनरेकेनोक्तम्-यत् त्वयोक्तं तत्तु सत्यम्, परं किं ज्ञायते, साध्व्यस्ति मरणभयविप्रमुक्ता निःस्पृहा हस्त्युपसर्गसहनार्थ तु न गच्छति ? | पूर्वमपि श्रूयते-अनेकैर्मुनिभिः सम्मुखं गत्वा उपसर्गसहनं कृतम् । मुनिस्तु उपसर्गसहनेन कार्यसिद्धिं करोत्येव, परन्तु यदा ग्रामसीमायां मुनेरुपसर्गो जायते तदा तस्य ग्रामस्याऽशुभं भवति, अतो विषादश्चित्तमावहति' एवं वदतां लोकानां दृक्पथं हस्त्यागतः । हस्तिनाऽपि आर्या दृष्ट्वा, सामान्यमनुष्यभ्रान्त्या धावितः । यावता निकटमागतः, उभयोदृग्मिलनं संजातं, तावता तु पनर्मोहोदयो जातः । कोपस्तु शान्तिमापन्नः । तत्र स्थितो घूमयति, मनसि चाहूलादमाप्नोति । तदा साध्व्योक्तम्-'भो रूपसेन ! बुध्यस्व, बुध्यस्व, कथं मोहमूढो दुःखं प्राप्नुवन्नपि ममोपरि स्नेहं न त्यजसि? मदर्थं क्लेशं परिवहृतः सप्त भवा संजाताः। निरर्थक मन्निमित्तं षट्सु भवेषु षड् वारान् मृतः, अयं सप्तमो भवः संजातः । अद्याऽपि समस्तदुःखैककारणं प्रेमबन्धनं कथं न मुञ्चसि ? । प्रतिभवमनर्थदण्डेन दण्ड्य से । यतः - 'रूपसेनो गर्भगतः सर्पो ध्वाइक्षोऽथ "हंसकः। मृगोऽपि मारितो जातो "हस्तित्वं सप्तमे भवे ॥२||
॥११२॥
Jan Education Internate
For Personal & Private Use Only
Dowww.jainelibrary.org