________________
श्रीधन्य
चरित्रम्
॥ १११ ॥
Jain Education International
| अन्यस्थानमलभमानास्तस्य दृष्टिं वञ्चयित्वा लतान्तरे सङ्कीर्णे जालान्तरे वा अदृश्यतया तिष्ठन्ति । कांश्चित्तु स्वविषयमागतान् शुण्डेन गृहीत्वा गमने उच्छालयति, ततः परं यथा आयुर्बलम्, केऽपि पीडां संप्राप्य जीवन्ति, केऽपि मरणमाप्नुवन्ति । कमपि तुण्डेन गृहीत्वा भूमौ आस्फाल्य मारयति, कमपि जीर्णवस्त्रवद् विदारयति । एवं लोकानामुपद्रवं कृत्वा पुनर्वनगहने याति । यस्य | कस्याऽपि सीमायाम्, अवश्यकार्यार्थ गन्तव्यं भवति तस्य चित्ताद् भयशल्यं न निवृर्त्तते । तस्मिन् नगरे सर्वेऽपि लोका हस्तिभयेन त्रस्यामानास्तिष्ठन्ति । अथाऽन्यदा सुनन्दाऽऽर्यया ज्ञानबलेन ज्ञातम् -'कल्ये प्रभाते सीमायां ग्राम निकटे हस्त्यागमनं भविष्यति' । इति सम्प्रधार्य प्राभातिप्रतिलेखनां कृत्वा विचारभूमिगमनमिषेण एकया अन्यसाध्व्या सह निर्गता । यावता गोपुरासन्नमागता तावता तु हस्तिभयात् त्रासमापन्ना भयेन वेपमाना धावन्त आगताः पुराद् बहिर्गच्छन्तीं साध्वीं दृष्ट्वा वक्तुं लग्नाः - ' मातः ! | आर्थिके ! मा बहिर्गच्छतु, यद् यमसोदरो हस्ती ग्रामासन्ने परिभ्रमति, मनुष्यं दृष्ट्वाऽवश्यं धावति, हस्ते चटितं च मारयत्येव । अतः इतो निवृत्य स्थानं गच्छतु, अधुना गमनाऽवसरो नैवाऽस्ति' । इति तेषां वचः श्रुत्वा सहाऽऽयाताम् आर्यिकां प्रत्युक्तम्-भो
ss ! यूयं यत्रैव तिष्ठत' । तयोक्तम्- 'तहत्ति, परन्तु एते भयेन कम्पमाना आगच्छन्तो वहिर्गमनस्य निषेधं कुर्वन्ति, तत् कथं भगवत्या गमनं क्रियते' ? | सुनन्दार्यिकयोक्तम्- 'मम किमपि भयं नास्तिः, यतोऽस्यैव प्रतिबोधनार्थं यामि । अयं हस्त्यपि प्रतिबोधं यास्यति, ग्रामलोकानामपि भयं निवर्तिष्वति शासनोन्नतिश्च भविष्यति । अतश्चिन्तालेशोऽपि न कर्तव्यः सर्व भव्यं भविष्यति' । इति शिक्षां दत्त्वा एकाक्येव सुनन्दार्या बहिर्गन्तुं प्रवृत्ता । तदा दूरनिकटस्थैर्लोकैः पूत्कृतम्- 'भो आर्थिके ! बहिर्मा गच्छ, हस्ती तव पराभवं करिष्यति, किमर्थ निष्कारणम् अनर्थे पतसि ́ ? । सुनन्दा तु मौनमाधाय मार्गे गच्छति । गोपुराद्
For Personal & Private Use Only
चतुर्थः
पल्लवः
॥ १११ ॥
www.jainelibrary.org