SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ११० ॥ कृतम् । मुनियुगलोक्तविज्ञातव्यतिकरेण गुरुणाऽपि श्लाघयित्वा सपरिकरस्य राज्ञो भवोद्विग्नायाः सुनन्दायाश्च दीक्षा शिक्षापूर्वकं | दत्ता । अथ राजर्षिरपि अत्युत्कटभावेन सहर्ष ग्रहणा सेवनाऽभ्यासं करोति । सुनन्दा तु महत्तरार्याप्रवर्तिनी समीपे स्थापिता । | साऽपि तत्र श्रुताऽभ्यासं शक्त्यनुरूपं तपश्च करोति । अथ राजार्षिर्द्वादशवर्षपर्यायमुत्कटं निरतिचारं च संयममाराध्य कर्म क्षपयित्वा | केवलज्ञानमासाद्य अन्ते योगनिरोधं कृत्वा मोक्षं जगाम । राज्ञः परिकरजना अपि केऽपि मोक्षं, केऽपि च स्वर्ग गताः । केऽपि ततो मनुजत्वं प्राप्य मोक्षं यास्यन्ति । अथ सुनन्दा साध्वी अतिवैराग्यङ्गरञ्जितहृदयाऽत्युत्कटपोबलेन अवधिज्ञानमुत्पाद्य महताऽऽहूलादेन संयमं निरतिचारं निर्वहति । एकदा प्रवर्तिन्यग्रे व्यतिकरं ज्ञापयित्वोक्तम्- 'मातः ! तस्य जीवस्य मदर्थ सप्त भवाः संजाताः, निरर्थकं क्लेशमनुभवन् अनिर्वचनीयदुःखाकरे पतितोऽस्ति । अतो यदि भवदीयाऽऽज्ञा भवेत् तदाऽहं तत्र गत्वा तं प्रतिबोध्य दुःखाकारात् 'समुद्धरामि' । प्रवर्तिन्योक्तम्- 'वत्से ! त्वं ज्ञानकुशलाऽसि । यदि तव ज्ञाने लाभः प्रतिभासते तदा तत्र गत्वा सुखेन तं प्रतिबोध्य धर्मं प्रापय, येनाऽऽराधको भवेत्' । तदा सुनन्दया महत्तराया आज्ञां लात्वा चतसृभिः साध्वीभिः सह विहारः कृतः । क्रमेण सुग्रामग्रामं प्राप्ता । गृहस्थानां पार्श्वाद् वसतिं याचित्वा तत्र चातुर्मासिकं स्थिता । प्रत्यहं भव्यश्राविकाणां धर्मोपदेशेन धर्मवृद्धि प्रापयति । अथ तत्र ग्रामसन्नपर्वतवनगहनेषु स रूपसेनजीवो हस्तित्वेनोत्पन्नो निवसति । स यदा परिभ्रमन् ग्रामसीमायामागच्छति | तदा सीमागतलोकानामुपद्रवं करोति, जानानां पृष्ठे धावति, केचिद् वृक्षे चटन्ति, केचित् पलायिता ग्रामं प्रविशन्ति; केचिद् १. समुद्धरणं करोमि । Jain Education International For Personal & Private Use Only चतुर्थः पल्लवः ॥ ११० ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy