________________
श्रीधन्यचरित्रम्
॥ १०९ ॥
Jain Education International
सफलं कुरु' । ततः सुनन्दा राजानं प्राह- 'स्वामिन् ! जाति-कुल- धर्म - नीतिविरुद्धाचरणेन पापभरभारितां कुलटां कुकर्मकरणपरा यणां निर्लज्जा मां यदि कृपा कृत्वा आज्ञां ददातु तदाऽहं दीक्षां लात्वा भवं निस्तरामि' । राजाऽऽह - सुभ्रु ! सर्वेऽपि जीवाः कर्मायत्ता | उदयबलेन यदकर्तव्यं तत् कुर्वन्ति । अकृत्यं च कृत्वा जन्म- जरा - मरण - रोगसङ्कुले नरक-तिर्यश्चादिचतुर्गतिगहने संसारे परिभ्रमन्ति । सर्वेषामियं भित्तिरग्रत एवास्ति, यावद् गृहवासे स्थितिरस्ति, तावद् निर्दोषत्वं कुतः । अतोऽहमपि नरकफलं राज्यं त्यवक्त्वा संयमं लातुमुत्सुकोऽस्मि । ततो येषां केषामपि संसाराद् भयं भवति, ते सुखेन भागवतीं दीक्षामङ्गीकुर्वन्तु । ते सर्वे मम | आत्मीयाः श्लाघनीया धन्याः शूरतमाः सान्वर्थसम्बन्धा ज्ञेयाः, इति राज्ञोक्तं श्रुत्वा सर्वेऽपि सभ्या उत्थाय राज्ञोऽग्रे निवेदयन्ति - स्वामिना सह वयमपि चारित्रं ग्रहीष्यामः । सेवकानां हि स्वाम्यनुशरणम्' इति सेवकधर्म च सफलीकरिष्यामः' । इति तेषां गिरं | श्रुत्वा राज्ञा सहर्ष मुनये विज्ञप्तम्- 'स्वामिन् ! मम लोकव्यवहारेण राज्यं पुत्राद्य-धीनं कर्तव्यमस्ति, तत् कृत्वा युष्मत्पार्श्वे चारित्रं ग्रहीष्यामि । अतो दयां कृत्वाऽस्मिन् ! मम लोकव्यवहारेण राज्यं पुत्राद्य-धीनं कर्तव्यमस्ति, तत् कृत्वा युष्मत्पार्श्वे चारित्रं ग्रहीष्यामि । | अतो दयां कृत्वाऽस्मिन् नगरोद्याने दिनद्वयमात्रं स्थातव्यम्, येन मे मनोरथतरुः सफलो भवेत्' । मुनिराह - 'राजन् ! यदि तवेदृशो | मनोरथोऽस्ति तदा गव्यूतिपरिमाणमार्गासन्नग्रामेऽस्मद्गुरवः समवसृताः सन्ति तत्रागन्तव्यम्, चिन्तितार्थश्च कर्तव्यः । वयं तु गुरोराज्ञां विना स्थातुं न शक्नुमः । धर्मलाभोऽस्तु तवाऽधुना, वयं यामः' । इत्युक्त्वा मुनिद्वन्द्वं गुर्वन्तिके गतम् । राजापि स्वगृहमागत्य राज्यं सूनवे ददौ । सर्वान् चाऽऽज्ञाप्य महद्धर्या गुर्वन्तिकं गत्वा गुरुं चाऽभिनम्य सपरिकरेण राज्ञा सुनन्दया च सविनयं दीक्षाप्रार्थनं
१. यस्य कस्याऽपि । २. दत्त्वा ।
For Personal & Private Use Only
चतुर्थः पल्लवः
॥ १०९ ॥
www.jainelibrary.org