________________
श्रीधन्यचरित्रम्
चतुर्थः
पल्लवः
॥१०८॥
यदयं सम्बन्धो न भवति । पूर्वकाले एकैकजीवेन सह सर्वेऽपि सम्बन्धा आत्मीयजीवेन अनन्तशः प्राप्ताः, तैरपि आत्मीयजीवेन | सह प्राप्ताः, कोऽपि तन्नियमो नास्ति । चतुरशीतिलक्षयोनीनां मध्ये सर्वासु योनिषु अनन्तश उत्पन्नः एवं सर्वासु जातिषु, सर्वासु कुलकोटिषु सर्वेषु च स्थानेषु अनन्तशो जन्म मरणं च पूर्व प्राप्तमस्ति, न किञ्चिद् अनाप्तं विद्यते। अग्रेऽपि यावद् भागवतीं दीक्षा नाप्स्यति तावदिह परिभ्रमिष्यति। राज्यादिसुखं तु शरदभ्रवद् अस्थिरम्, आयतिबहुदुःखप्रदायकं च । ईदृशं संसारस्वरूपं श्रीमद्भिर्जिनेश्वरैर्भाषितमस्ति, तस्माद् यद् रम्यं भासते तत् कुरुष्व" । एवं मुनिराजोक्तं श्रुत्वा राजा राज्ञी सर्वेऽपि च निकटस्थाः सभ्या वैराग्यं प्राप्ताः राजा स्वयं समुत्थाय मुनिचरणयोर्निपत्य इत्युवाच-'हे निष्कारणजगदेकबन्धो ! हे दयानिधे! हे अनाथनाथ ! हे अशरणशरण ! हे समतासरिताम्पते ! अपारसंसारकूपारमध्यनिमग्ना वयं समुद्धृता निजागमनेन शिरोधूननमात्रेण. तानि चाऽस्माकं समस्तदुष्कृतानि समुद्धृतानि । भवदागमनं चेद् नाऽभविष्यत् तदऽस्माकं का गतिरभविष्यत्' ? । सुनन्दाऽपि बदरस्थूलानि अश्रूणि मुञ्चन्ती साधूनभिवन्द्य विज्ञप्तिं कर्तुं लग्ना-'हे दयानिधे ! दुर्भाग्याया दुःशीलायाः कुकर्मकरणैकतत्पराया बहुलपापभरभारिताया मम का गर्तिर्भविष्यति ? । कथम् ईदृशं प्रायश्चित्तं केनोपायेन स्फेटयिष्यामि ? कृपां कृत्वा तदुपायं प्रसादीकरोतु भवान्' ।मुनिराह-'भद्रे! भवदीयपापसंभारादपि अधिकतराणि पापानिचारित्रग्रहणात्श्रीमजिनाज्ञाऽनुकूलपालनाच्च च्छुट्यन्ते, शिवं च प्राप्यते' । ततः सुनन्दया पृष्टम् ! अयं मदर्थं क्लेशं सहमानो रूपसेनजीवो मृगभवाच्च्युतः कुत्रोत्पन्नः' ?। साधुराह-'विन्ध्याऽटव्यां सुग्रामनाम्नि ग्रामे सीमा समीपवनगहने करिण्याः कुक्षौ हस्तित्वेनोत्पन्नोऽस्ति' । पुनः सुनन्दा प्राह'भगवान् ! कदाप्यस्योद्धारो भविष्यति' ? | मुनिराह-'तव मुखाद् निजभवसप्तकविडम्बनां श्रुत्वा जातिस्मरणम् भविष्यति । त्वत्तो धर्म लब्ध्वा तपांसि कृत्वा समाधिना मृत्वा सहस्रारे देवो भविष्यति, ततश्च्युत्वा सेत्स्यति। अतस्त्वं दीक्षाऽङ्गीकरणेन भवं
॥१०८॥
Jan Education International
For Personal Private Use Only
www.jainelibrary.org