________________
श्रीधन्य
चरित्रम्
॥ १०७ ॥
Jain Education International
कूजति, रसभङ्गं च करोति, तेन राज्ञा मारितः । ततश्च्युत्वा हंसो जातः । सोऽपि वटवृक्षोर्ध्वस्थितस्त्वां दृष्ट्वा विह्वलो वायसाऽपराधस्थानेऽयं मारितः । मृत्वा च हरिणतयोत्पन्नः । सोऽपि आखेटके त्वां दृष्ट्वा मोहोदयेन गन्तुं न शक्नोति, नृत्यति च । राज्ञा हतः, तस्य मांसं पाचयित्वा सहर्षं युवां भक्षणं कुरुथः । ईदृशी कर्मणां गतिः ! । तद् ज्ञात्वाऽस्माभिः शिरोधूननं कृतम्, नाऽन्यत् किमपि कारणम्" ।
इत्येवं राजा राज्ञी च श्रुत्वा संसारवासाद् विरक्तौ जातौ। 'हा! किमीदृशं संसारस्वरूपम्' ? । इत्युक्त्वा राज्ञा पृष्टम् -'मुने ! किं रामाssसक्तानाम् इयमेव गतिर्भवति' ? मुनिराह 'राजन् ! कया निद्रया सुप्तोऽसि ? । हिंसा मृषा चौर्य-मैथुन - परिग्रहक्रोध-मान- माया-लोभ-प्रेम-द्वेष- कलहा- भ्याख्यान - पैशुन्य- रत्यरति परपरिवाद मायामृषा मिथ्यात्वानाम् एतेषामष्टादशदोषाणां मध्य एकैकोऽपि दोष एकस्मिन्नेव भवे समाचरितोऽनन्तकालं यावद् अनन्तेषु भवेषु नरक - निगोदादिषु भ्रमयति, अनेकान् विरूपरूपान् विपाकान् प्रापयति, तत्सव्रूपं सर्वज्ञकेवली जानाति, परम् एकमुखेन वक्तुं न शक्नोति । विपाकाश्चास्य विचित्राः - देवो मृत्वा पशुर्भवति, पशुरपि देवः । माता पुत्री, पुत्री च माता, स्त्र्यपि माता । पिता पुत्रोऽपि पुत्रः पिता | सेवको वा श्वा वा अश्वो वा बान्धवो वा दासो वा भवति । शत्रुर्मृत्वा मित्रं वा प्रिया वा पुत्रो वा एवं मित्रमपि शत्रुर्वा दासो वा सुभगो वा दुर्भगो वाऽनिष्टो वा इष्टो वा । एवं राजाऽपि मृत्वा दासो वा ब्राह्मणो वा 'श्वपचो वा 'सार्वभौमो वा रोरो वा रासभो वा तरुर्वा कीटपतङ्गो वा वेश्या वा व्याघ्रो वा हरिणो वा मत्स्यो वा भवति । एवं सर्वजातीयैर्जीवैः सह सम्बन्धा जायन्ते, न कस्यापि नियमो
१. चाण्डालः । २. चक्रवर्ती। ३ रङ्कः ।
For Personal & Private Use Only
चतुर्थः
पल्लवः
॥ १०७ ॥
wwwwwww.jainelibrary.org