________________
श्रीधन्य
चरित्रम्
॥ १०६ ॥
Jain Education Inter
गतिर्जाता' ? । मुनिराह-‘अधुना तद्वयतिकरं श्रृणु-रूपसेनोऽपि यथावसरे भोगसामग्रीमादाय स्वगृहान्निर्गतः । मिलनौत्सुक्याद् हर्षभरनिभृतहृदयोऽनेकवार्ताकरण- निरन्तरमिलन - अनेकहास्यविलासादिकरण- सूक्तसुभाषितसमस्यादिस्वचातुर्यप्रकटनविविधासनादिप्रयोगपूर्वकसूरतक्रियाकरणाद्यनेकमनोरथान् कुर्वन् 'अहो ! इयं राजपुत्री ममोपरि 'निर्व्याजं कृमिजरङ्गवत् स्नेहं विभर्ति, तस्मादहमपि यद् भाविं तद् भवतु' परम् अनया सह आजीवितं स्नेहविरमणं न करिष्यामि ' इत्याद्यनेकमनोरथार्तिसंभृतहृदयो यावदर्धमार्गमागतस्तावता एका निःस्वामिकाऽऽवासमित्तिः परिकर्मरहिता जलवृष्ट्या शिथिलीकृता दैवात् तस्योपरि पतिता । तस्या घातेन तस्य शरीरं खण्डशो जातम् । भित्तिपतनपुञ्जाधश्च आगतं, तेन तच्छरीरं तथा गुप्तं जातं यथा कोऽपि न जानाति । मृत्वा च दुरोदरकृतसंभोगे त्वत्कुक्षौ गर्भतयोत्पन्नः । 'विचित्राहि कर्मणां गतिः', ध्यातमन्यत्, जातं चाऽन्यद् । ततो मासद्वायानन्तरं गर्भचिह्नानि प्रादूर्भूतानि । तदा सख्या औषधप्रयोगेण गर्भशातनं कृतम् । ततश्च्युत्वाऽस्मिन्नगरे राजमन्दिरासन्नभूमौ सर्पतयोत्पन्नः । ततः परं मात्रा त्वदाशयं ज्ञात्वा पाणिग्रहणं कारितम् । बहुदानपूर्वकं विसर्जनं कृतम् । अनेन राज्ञा सहाऽत्रागता । एकदा स सर्पः परिभ्रमन् राजमन्दिरं प्रविष्टः सन् भ्रमति । दैवाद् युवां दम्पती | आवासवाटिकायां क्रीडां कुरुथस्तत्रागतः । त्वद्दर्शनं जातं, दर्शनाच्च मोहोदय आविर्भूतः, तेन जडीभूत एकत्र स्थितोऽनिमेषं पश्यति, हर्षं च प्राप्नोति । अस्मिन्नवसरे 'भयबिह्वला त्वं गृहान्तर्गमनायोत्थिता, तदा स सर्पोऽपि पृष्ठे लग्नो भ्रमति । तदा भीतया त्वया पूत्कारः कृतः, तदा राज्ञा सेवकैर्मारितः । मृत्वा च अस्मिन्नेव नगरे ध्वाङ्क्षो जातः । सोऽपि नाटकावसरे त्वां दृष्ट्वा हर्षितः
१. निष्कपटम्। २. नाशनम् । ३. भद्रासनोपविष्टौ वार्ता । ४. किमपि कार्यार्थं ।
For Personal & Private Use Only
चतुर्थः
पल्लवः
॥॥ १०६॥
jainelibrary.org