SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चतुर्थः पल्लवः ७५ अस्मिन्नवसरे महोत्सवागमनं ज्ञात्वा चिन्तयितुं लग्नः - 'अद्य रात्रौ समस्तनगरजनाः सपरिकरा बहिर्यास्यन्ति, नगरं च विजनं भविष्यति। तदवसरेऽहं नगरमध्ये कस्यापि धनिक गृहस्य प्रतिकुञ्चिकादिप्रयोगेण तालकोद्घाटनं कृत्वा धनं लास्यामि। एवं मम दुःखोद्धरणं भविष्यति' । इति ध्यात्वाऽवसरे एकप्रहररात्रिगमनसमये धनार्थं निर्गतः स परिभ्रमन् दैवात् त्वत्कृतसङ्केतस्थानमागतः । तच्च दृष्ट्वा 'कुबुद्धिभाण्डागारिकेण ज्ञातम्-अत्र कस्यापि सङ्केतो दृश्यते, अतोऽत्राहमपि स्वां कलां करोमि ? । इति ध्यात्वा निःश्रेणी चालिता। अथ तां कम्पमानां दृष्ट्वा सख्या तत्रागत्याऽऽलापितो धूर्तः - आगता यूयम्' ?। तदा धूर्तेन 'ओम्' इत्युक्तम्। सख्या ज्ञातम्-सैवाऽऽगतः । तत्रस्थितया तया तुभ्यं वृद्धपनिका दत्ता । तव चित्तमपि प्रसत्तिपात्रमभूत् । तदा सख्योक्तम्'आगम्यतां स्वामिन् ! तदा धृष्टहृदयो धूर्तस्तयोक्तमात्रे चटितः यावता गवाक्षान्तः पादो मुक्तस्तावता तस्मिन्नेव अवसरे सखीवृन्दागमनं दृष्ट्वा सख्या हस्तेन दीपो निर्वापितः । तद्धस्तं च गृहीत्वा तव पर्यङ्के मुक्तवा सखीवृन्दायोत्तरं दातुं गता। सखीवृन्दायोक्तम्-'तापभयाद् दीपो निर्वापितः । अधुनैव शिरोऽर्तिपीडा किञ्चिद् मन्दीभूता, तेन नेत्रे मिलते, अतो गृहान्तरं गत्वा कार्यं कृत्वाऽऽगच्छतु' । इत्युक्तं श्रुत्वा सखीवृन्दं गृहान्तरं गतम् । तत्र पुनरन्धतमसि रूपसेनभ्रान्त्या तेन सह तव संयोगो जातः । सखीवृन्दभयाद् लज्जया च कोऽपि वार्तालापो न कृतः । संयोगविरामे तु पुनः सखीवृन्दमागतं दृष्ट्वा सख्योक्तम्-अधुना तु त्वरितं गच्छतु भवान् । तच्छ्रुत्वा सुरतक्रियया त्रुटितहारादीन् गृहीत्वा गतः । इति सत्यं वाऽसत्यम्" ? | मुनिना इत्युक्ते स्वचिन्तिताद् विपरीतं ज्ञात्वा दीर्घ निःश्वस्योक्तम्-'स्वामिन् ! भवदुक्तौ को विश्लेषः ?, निःसन्देह एव । परं रूपसेनस्य का १. द्यूतकारेण । ॥१०५॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy