SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ १०४ ॥ 'स्वामिन् ! भवदुपदेशेन 'अमुकेन सुखं दुःखं वा दत्तम्' इति भ्रमस्खलना चिरकालपरिचिताऽपि गता । यद् जीवो दुष्कृतं करोति तत् कर्मोदयाज्ञानवशात् कर्मोदया-ऽज्ञानयोश्च गौण-मुख्यभावेन यथावसरं प्रवर्तते । तस्माद् रागद्वेष वृद्धिर्भवदुपकारान्न भविष्यति, अतः सुखेनोच्यताम्' । तदा साधुराह - 'हे सुनन्दे ! पूर्व हि बालभावे महावासोपरि सख्या सह स्थितया त्वया कस्याऽपि इभ्यस्य गृहे दूरतः तां काञ्चिद् रूप-यौवन-विनयादिगुणाऽन्वितां भर्त्रा किमप्यलीकाऽभ्याख्यानं दत्त्वा कम्बया ताड्यमानां दृष्ट्वा तव पुरुषे द्वेष उत्पन्न इति सत्यमसत्यं वा' ? । इति मुनेरुक्तं श्रुत्वा चमत्कृता सुनन्दा प्राह- 'स्वामिन् ! सत्यं भवद्वचनम्, असत्यं न भवत्येव' । "तद्द्द्वेषेण दूना पाणिग्रहणाऽकरणप्रतिज्ञां कर्तुं लग्ना सखीभिः वारिता स्थिता । पुनः कालान्तरे यौवनवयसि प्राप्ते पुनस्तथैव आवासोपरिस्थिता यास्तवाऽपि कस्मिंश्चित् महेभ्यावासाऽभ्यन्तरे दम्पत्योर्विलसनं दृष्ट्वा तीव्रकामोदयो जातः । सख्या शिक्षां दत्त्वाऽऽवासोपरितनभूम्या उत्तार्य गवाक्षे स्थापिता, तदवसरेऽमुकमहेभ्यपुत्रम् अतिरूपयौवन-चातुर्य - वस्त्राभरणभूषितं चतुष्पथे ताम्बूलिकहट्टे स्थितं दृष्ट्वा तव तदुपरि कामरागेण व्यामोहो जातः । | सखीहस्तदत्तपत्रिका प्रमुखप्रयोगेण पूर्वोक्तव्यतिकरेण युवयोर्गाढस्नेहो जातः परं मिलनाऽवसरस्तु दुष्करः । एवं | मिलनार्त्तध्यानधृताभ्यां युवाभ्यां कियत्यपि गते काले कौमुदीमहोत्सवावसरं लब्ध्वा दवरकनिःश्रेण्याः प्रयोगेण आगमनसङ्केतः कृतः । त्वया तेन च शरीराऽपाटवमिषेण गृहाभ्यन्तरे स्थिते, त्रियामाया एकयामे गते सख्या निःश्रेणीप्रयोगः कृतः । तदवसरे त्वयाऽज्ञातं यञ्जातं तच्छृणु - "तन्नगरे एको महाबलो नाम्ना दौरोदरिकोऽस्ति । तेन द्यूतक्रीडायां बहु धनं हारितम्, तद्दुःखेन पीडितः परिभ्रमति । Jain Education International For Personal & Private Use Only चतुर्थः पल्लवः ॥ १०४ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy