SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सादिमात्रीकृतगुरौ तस्मिन्प्राशशिरोमणौ । मियो गृहीतसङ्केता इव सश्चक्रमुः कसाः ॥॥ यौवने पर्यणैषीस राजकन्याः कुलोन्नवाः । सम्पृक्तश्चाशुलत्तानिलतानिरिव पादपः ॥ ४२३ ॥ सकलत्रस्य चान्येयुःप्रासादे तस्य तस्थुषः। सागरर्षिः पुरीबाह्योपवने समवासरत् ॥४२॥ तत्र कामसमृघाख्यः सार्थवाहो महामुनिम् । तं प्रत्यलाजयन्नत्या मासक्षपणपारणे ॥१५॥ गृहे कामसमृधस्य पात्रदानप्रजावतः । वसुधारापतक्ष्योन्नः पात्रे दानाधि किं न हि ॥४१६॥ शिवस्तदनुतं श्रुत्वा गत्वावन्दत तं मुनिम् । निषसाद च तपादपद्मान्ते राजहंसवत् ॥ ४२ ॥ चतुर्दशानां पूर्वाणामाकरः सागरोऽपि हि । शिवस्य सपरीवारस्याचख्यौ धर्ममाईतम् ॥ ४२० ॥ विशेषतश्च संसारासारतां तस्य धीमतः। गमयामास स मुनिर्मनसि स्फटिकामले ॥४ ॥ शिवोऽपृढच्च तमृषि किं प्राग्नवनवः प्रनोः । स्नेहो मे पश्यतो यत्त्वां हर्षोऽयमधिकाधिकः ॥३०॥ ज्ञात्वा चावधिनाचख्यौ मुनिस्त्वं पूर्वजन्मनि । कनिष्ठोऽनर्मम नाता प्राणेभ्योऽप्यतिवद्वतः॥४३१॥ मया प्रव्रजितेन त्वमनिबन्नपि हि व्रतम् । उपायेन ग्राहितोऽसि परलोकहितेचया ॥४३॥ अजूव च सुरावावां सौधर्मे परमर्द्धिको । कुमुदेन्बोरिव प्रीतिस्तत्राप्यनवदावयोः ॥ ४३३ ॥ जवेऽस्मिन्वीतरागोऽहं स्वे परे वा समानहक् । त्वं त्वद्यापि सरागत्वालाग्नवस्नेहजाग्मयि ॥४३४॥ शिवोऽवदद्वतादानाद्देवोऽजूवं पुराप्यहम् । तदिहापि नवे पूर्वववद्देहि मे व्रतम् ॥ ४३५॥ आपृष्ठय पितरौ यावदायामि व्रतहेतवे । पूज्यास्तावदिहैवाध्वं यूयं मयि कृपाखवः ॥ ४३६॥ १ उपविशत । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy