SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ घादशः ॥१०॥ हितीये वासरे रुक्मिएयुवाच पितरं निजम् । वज्रस्वाम्यागतो ऽस्तीह यं वुवूर्षाम्यहं सदा ॥ ७॥ तन्मां वज्रकुमाराय सम्प्रदत्तान्यथा तु मे । मरणं शरणं तात ग्राणि रेखेव गीरियम् ॥ २७५॥ श्राजिजात्यसखीं लजां विहायैवं ब्रवीमि यत् । तत्रेदं कारणं वज्रो मत्पुण्यैरयमागतः ॥२७६॥ एष प्रायेण न स्थास्चर्यद्यद्यैवेह गछति । किं ज्ञायते कदाप्येति यो ऽप्युड्डीनपक्षिवत् ॥ २७ ॥ तस्मादलं विलम्बेन देहि वज्राय तात माम् । चिरकौमारदीनां मां पश्यन्किं न हि दूयसे ॥२७॥ एवं धनो ऽतिनिर्बन्धाऽपवज्रं निनाय ताम् । सद्यः कृत्वा विवाहासर्वालङ्कारजूषिताम् ॥२७॥ पुत्र्या सममनैषीच्च धनकोटीरनेकशः। प्रलोननं वरयितुर्यथा स्यादिति जातधीः॥२॥ तदहाध्यस्तने चाह्नि वजे कुर्वति देशनाम् । जक्तिमान्नागरखोकः परस्परमदो ऽवदत् ॥ २०१॥ अहो वज्रस्य सौस्वयं यदीयां धर्मदेशनाम् । श्राकानन्दमग्नानां मुक्त्यवस्थेव जायते ॥ २०॥ श्रीवज्रस्वामिनः सर्वगुणरत्नमहोदधेः । गुणानुरूपं चेद्रूपं जवेमुच्येत तर्हि किम् ॥ २३ ॥ वज्रर्षिणा च नगरप्रवेशे रूपमात्मनः । शक्त्या सङ्क्षिप्तमेवासीत्पुरदोनालिशङ्कया ॥२४॥ तदा च नगवान्वज्रस्तेषां नावं मनोगतम् । संतापं च ज्ञानबलेनाज्ञासीदतिशायिना ॥ २५ ॥ हितीये हिच वज्रेण विचक्रे ऽनेकलब्धिना । सहस्रपत्रं कमलं कमलाविष्टरोपमम् ॥ २६॥ कृत्वा स्वानाविक रूपमञ्जतं तस्य चोपरि । निषीदति स्म लगवान्वज्रो राजमरालवत् ॥२७॥ वज्ररूपं जनो दृष्ट्वा जितामरकुमारकम् । शिरांसि उधुवे गीतान्यासं विरचयन्निव ॥ ॥ ऊचे च लोको वज्रस्य रूपं नैसर्गिकं ह्यदः । गुणानामाकृतेश्चाद्य सदृशो ऽनूत्समागमः॥२ ॥१७॥ Jain Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy