SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ एकादशः स ॥ ७॥ तत्पदान्यसृगास्रावविस्राणि शिशुनिता । विहाना जम्बुकी कापि तत्रोद्देशे समाययौ ॥ १५३ ॥ तत्पादप्रकरक्तपङ्कगन्धेन नूयसा। सशिशुः सा विवेशाथ मध्येकन्थारिकावनम् ॥ १५ ॥ शोधयन्ती च सा प्राप तत्पादरक्तपिचलम् । तं च खादितुमारेले कृतान्तस्येव सोदरा ॥ १५॥ चटच्चटिति सा चर्म त्रटनटिति जङ्गलम् । धगधगिति मेदश्च कटक्कटिति कीकसम् ॥ १५६॥ लक्ष्यन्ती पादमेकं तस्य सा निरशेषयत् । तडिम्लरूपाण्यपरं प्रथमे प्रहरे निशः॥ १५७॥ युग्मं ॥ तथापि न चकम्पे स प्रत्युतामस्त सात्त्विकः । अपि तां पादखादित्री पादसंवाहिकामिव ॥ १५ ॥ एवं वितीये प्रहरे तदूरू च चखाद सा । साधु तृप्यतु जीवो ऽयमित्यकार्षीत्कृपां तु सः॥ १५॥ तत्तुन्दं नक्षयामास तृतीयप्रहरे च सा । स तु दध्यौ मथत्येषा न तुन्दं किं तु कर्म मे ॥१६॥ तुर्ये च यामे यामिन्या महासत्वो विपद्य सः। विमाने नलिनीगुरमे महरिमरोऽजवत् ॥ १६१॥ वन्द्यो महानुनावो ऽयं महासत्त्वो ऽयमित्यथ । तचरीरस्य तत्कालं महिमा निर्ममे ऽमरैः ॥ १६ ॥ तन्नायर्यास्तमपश्यन्त्यः वन्ति स्म सुहस्तिनम् । आख्याहि नगवन्नस्मत्पतिः कथमन्नूदिति ॥ १६३॥ उपयोगेन विज्ञाय सुहस्त्यपि हि तत्तथा । तदीयं सर्वमाचख्यौ तान्यो मधुरया गिरा ॥ १६ ॥ अवन्तिसुकुमावस्य पल्यो गत्वाथ सद्मनि । नजायाः पुरतः सर्व तं वृत्तान्तं न्यवीविदन् ॥ १६५॥ अवन्तिसुकुमालस्य माता ना निशात्यये । श्मशाने प्रययौ तत्र कन्थारीवनसाबिते ॥ १६६॥ आकृष्टं दिशि नैत्यां दृष्ट्वा सूनोः कलेवरम् । रुरोद बाष्पमिषतो वारिदानोद्यतेव सा ॥ १६७॥ १ मांसम् । Jain Education For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy