SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Jain Educationa International या वेदमिति चिन्तापरः स तु । सञ्जातजातिस्मरणो ययावाचार्यसन्निधौ ॥ १३७ ॥ नत्वा चोवाच जगवन्नप्रायास्तनयो ह्यहम् । पुरा च नलिनी गुल्मविमाने त्रिदशो ऽनवम् ॥ १३८ ॥ विमानं नलिनी गुल्मं जातिस्मृत्या मया स्मृतम् । तत्रैव गन्तुं नूयो ऽद्य परिविवजिषाम्यहम् ॥ १३ ॥ ततः प्रार्थयमानं तं प्रत्राजयत मामिति । श्राचार्यमिश्रा जगदुः सुकुमारो ऽसि दारक ॥ १४० ॥ सुखदा लोहचणकाः सुस्पर्शा वह्नयो ऽपि हि । दुष्करं तु जिनोप तपो ऽतीचारवर्जितम् ॥ १४१ ॥ यदि बाढं प्रव्रज्योत्कण्ठितस्त्वहम् । सामाचारी चिरतरं न च पालयितुं क्षमः ॥ १४२ ॥ दावेव परिव्रज्यां तस्मादनशनान्वितम् । श्रदास्ये सत्त्वमालम्ब्य स्तोकं कष्टमिदं खलु ॥ १४३ ॥ गुरुरूचे महाभाग प्रव्रज्यां चेजिघृदसि । तदनुज्ञापय निजान्बन्धूनिह हि कर्मणि ॥ १४४ ॥ अवन्तिसुकुमालोऽपि गृहे गत्वा कृताञ्जलिः । श्रपप्रछे निजान्बन्धूननुज तु तैर्न हि ॥ १४५ ॥ जासूस्ततः केशांस्तत्रैवोदख नत्स्वयम् । स्वयं चोपाददे साधुलिङ्गं गृहपराङ्मुखः ॥ १४६ ॥ तादृग्रूपो ययावार्यसुहस्त्याचार्यसन्निधौ । अवन्तिसुकुमालो ऽथ निर्ममः स्ववपुष्यपि ॥ १४७ ॥ स्वयमेवोपात्त लिङ्गो मा जूदिति सुहस्त्यपि । तं परिव्राजयामास प्रव्रज्याविधिमुच्चरन् ॥ १४८ ॥ चिरकालं तपःकष्टनिर्जरां कर्तुमक्षमः । गुरूनापृष्ठ्य सो ऽन्यत्र ययावनशनं चिकीः ॥ १४९ ॥ a saन्तिसुकुमालः सुकुमालपदयात् । निर्गतपृषतैः सेन्द्रगोपामिवावनि ॥ १५० ॥ स्थाने स्थाने चिताजस्मधूसरी कृतभूतलम् । सो ऽगात्पितृवेनं क्रीमास्थानं पितृपतेरिव ॥ १५१ ॥ कन्यारिकाकुङ्गान्तस्तस्थावनशनेन सः । समाहितः स्मरन्पञ्चपरमेष्ठिनम स्त्रियाम् ॥ १५२ ॥ १ श्मशानम् । For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy