________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥९७॥
HONGHONGING
SHONGI SON
Jain Educationa Infe
नियतमितिवचनात्,
तच्च सामायिकपौषधचारित्राद्यनुष्ठानमेव, ईयां प्रतिक्रम्यैव तद्विधानाद्, यत्तु केचित्कुपाक्षिकाः सामायिकमीयां विनाऽप्युपदिशन्ति ते तु ईर्ष्यापथषट्त्रिंशिकायां सामायिकेऽपि प्रथममेवेर्या युक्तेतिव्यवस्थापनेन निराकृता इति बोध्यं तत्र वर्त्तमानः श्रावकः साधुर्वा सचित्तादिसंघट्टे-पृथिव्यादिसचित्तमिश्रद्रव्याणां संघट्टे पुनरपीर्या सामायिकादिवतोच्चारादौ या ईर्या ततोsप्यपरा ईर्ष्या पुनरर्या तां प्रतिक्रामति, कुत इति हेतुमाह - 'कयवय'त्ति कृतव्रतभङ्गभयात् कृतं यद् व्रतं द्विविधं त्रिविधेन प्रत्याख्यानलक्षणं सामायिकपौषधादि त्रिविधं त्रिविधेन प्रत्याख्यानलक्षणं सामायिकच्छेदोपस्थापनीयादि चारित्रं तस्य भङ्गो-देशेनातिचारलक्षणस्तद्भयात् अनाभोगादिना सचित्तस्पर्शादौ जाते अहो अस्मगृहीतव्रतानामतिचारलक्षणं मालिन्यं मा भवत्वित्यभिप्रायेण तन्मालिन्यप्रक्षालनाय जिनोपदिष्टा ईर्यापथिकी प्रतिक्रम्यते, तथा चेर्यापथिकास्थानं सामायिकादिवतान्येव नतु धर्मानुष्ठानमात्रे पृथिव्याद्यारम्भादावपीति गाथार्थः ॥८२॥ अथ प्रकृते योजयितुमाहतेणं कडसामइओ मुणिव्व सोति नेव दव्वधयं । कुणइत्तिअ जिणआणा न उणं इअरोबि धम्मरओ ॥ ८३ ॥
येन कारणेन सचित्तस्पर्शमात्रेऽपि सामायिकादिव्रतस्यातिचारो भवति तेनैव कारणेन कृतसामायिको मुनिवच्छ्रावकोऽपि द्रव्यस्तवं पुष्पादिभिर्जिनपूजां न करोतीति जिनाज्ञा, न पुनरितरोऽपि - कृतसामायिकादतिरिक्तोऽपि 'धर्मरतः' जिनेन्द्रभक्त्युत्सुकः, अयं भावः - सामायिकादिवत जिघृक्षुः परित्यक्तसर्वसचित्तवस्तुकः प्रथममीय प्रतिक्रम्य कृतसामायिकस्तदवधिकालं यावत्सचित्तस्पर्शादिरहित एव तद्व्रतपालको भवति, जिनपूजाचिकीर्षुस्तु सचितपुष्पादिवस्तूपादायैव जिनपूजां करोति, तद्विना पूजाया एवासंभवात्, प्रति कार्यं कारणस्य मिन्नत्वात्, तथा च नघुत्तारजिनपूजयोर्जिनाज्ञामधिकृत्य वैषम्यमुद्भावयन् लुम्पको मूर्खावधिमात्मनः सूचयन्
For Personal and Private Use Only
ONEYONGHOTOSONG ON NONOKH
नद्युत्तरपूजयोः
साम्यं
॥९७॥
www.jainelibrary.org