SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ९८|| 10% बोध्यः, किंच - द्विविधत्रिविधप्रत्याख्यानवान् कृतसामायिकः श्रावकोऽप्यनाभोगादिना सचित्तस्पर्शादिजन्यपात कभीतः सभीय प्रतिक्रामति, लुम्पकस्तु यावज्जीवं त्रिविधत्रिविधेन जीववधादि प्रत्याख्यायापि महापातकमिति ज्ञात्वाऽपि ज्ञात्वैव महीसदृशीं महानदीमुत्तरन् षड्जीवनिकायान् हत्वाऽपीयमात्रेण तत्पातकशुद्धिं ब्रुवाणो न लञ्जते इति महामूर्खता चिह्नमपीतिगाथार्थः ॥ ८३ ॥ अथेर्यापथिकी ह्यात्मनः शुद्धिकरा धर्ममात्रे कथं न भवतीति लौकिकलोकोत्तरदृष्टान्ताभ्यां शङ्कामपाकरोति लोएवि गिहपवेसे सुइजलफासो न हट्टपविसेऽवि । लोउत्तरि सामइए इरिआ न तहेव मुणिदाणे ||८४|| rasu गृहप्रवेशेन शुचिजलस्पर्शः - अभ्युक्षणं सर्व्वजनप्रतीतं, न हट्टप्रवेशे, चकारो गम्यः, न च हड्डे - आपणे प्रवेशेऽभ्युक्षणं कोऽप्युपादत्ते, यद्यप्यापणो महामूल्यपण्यादिभृतो महालाभादिहेतुस्तथापि गृहपतिर्यथा गृहे प्रविशन्नभ्युक्षणं लाति न तथा कोऽप्यापणे प्रविशन्नपीति लौकिकदृष्टान्तः, तथा लोकोत्तरे सामायिके यथा ईर्ष्या न तथैव मुनिदाने, यथा सामायिकं कुर्वन्नीय प्रतिक्रम्यैव न तथा मुनिदानं कुर्वन्नपीति भाव इति लोकोत्तरदृष्टान्तः, दार्शन्तिकौ तु जिनपूजानद्युत्तारौ प्रकृतावेवेतिगाथार्थः ॥ ८४ ॥ अथ नद्युत्तारजिनपूजयोर्जिनाज्ञामधिकृत्य साम्येऽपि कथंचिद्भेदो न दोषायेति दर्शयितुं दृष्टान्तान्तरयुक्तं गाथायुग्ममाहअवा जह अंतेविअ भोअणकिरिआवि विविहवत्थुगया । जलसुइरहिआडरहिआ लोअच्ववहारसंवडिआ ॥ ८५ ॥ एवं जिणिदधम्मो आणाविसओऽवि भिन्नविहिविसओ । तेणं नइउत्तारे इरिआ न जिणिदपूआए ॥ ८६ ॥ युग्मं ॥ अथवेति दृष्टान्तान्तरद्योतकः, अथवा यथा विविधवस्तुगता अशनपानखादिमस्वादिमविचित्रवस्तुगता भोजनक्रिया अन्तेऽपि - आस्तामादौ तद्भुक्त्यनन्तरमपि जलशुचिविरहिता, चः समुच्चये, अरहिता च- जलशुच्यन्विता च लोकव्यवहारसंपतिता, लोकव्यव Jain Educationa International For Personal and Private Use Only GOING नघुत्तार पूजयोः साम्यं ॥९८॥ www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy