________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥९९॥
GHOIGOING ONION
A
हारालो पिकेत्यर्थः तथाहि - राद्वान्नादिकं हि किञ्चिद्भोज्यं भुक्तं सदन्ते जलेनावश्यं शुचिकर्म कर्त्तव्यमेव, अन्यथा लोकव्यवहारबाह्यो भवेत् किंचिच्च तथाविधखर्जूरद्राक्षादिकं ताम्बूलादिकं चान्ते जलशुचिमन्तरेणापि लोकव्यवहारखानेव स्याद्, अत एव मुखे सत्येव ताम्बूलादिके पुस्तकादिसंस्पर्शने पण्डितलोकेऽप्यनिन्द्यता, राद्धानं भक्षयन् पुस्तकादिस्पर्शवान् पापात्मैव भण्यते, एतदृष्टान्तेन दाष्टन्तिकमाह - 'एवं जिणिंदे' त्यादि गाथा, एवं भोजनदृष्टान्तेन जिनेन्द्रधर्म आज्ञा विषयोऽपि भिन्नविधिविषयः, जिनेन्द्र भाषितो धर्मोऽप्यनेकप्रकारः, कार्यभेदे हि कारणेऽपि भेदोऽवश्यं वक्तव्यः, अतो भिन्नभिन्नक्रियासाध्य इत्यर्थः तेन कारणेन नद्युत्तारेनद्युत्तारानंतरं साधूनामीर्या भणिता, न जिनेन्द्रपूजायां, चाप्योरध्याहारात्, नच जिनेन्द्रपूजायामपि श्रावकाणामीर्या भणिता, युक्तिवात्र प्रागेव दर्शितेति बोध्यं किंच - कारणानां सादृश्ये कार्याणामपि वैचित्र्यं न स्यादितिगाथार्थः ।। ८५-८६ ।। अथाज्ञामन्तरेणापि नद्युत्तारे यत्पातकं तदीर्यापथिकयैव विशोध्यमिति लुम्पकाभिप्रायं तिरस्कुर्वन्नाह—
जइ आणानिरविक्खा इरिआ नइपाणवाहसोहिगरी । ता मुणिदाणे तीए सड्डो सुद्धो असुद्धोवि ॥ ८७|| यदि आज्ञानिरपेक्षा-जिनेन्द्राज्ञामन्तरेणापि केवलमीयैव 'नदीप्राणवधशोधिकरी' नद्युत्तारे यः प्राणवधः सर्व्वजनप्रतीतस्तस्य | शोधिकरा - विशोधिजनिका 'ता' तर्हि मुनिदाने - साधुदानावसरे दानोत्सुकोऽनाभोगादिना सचित्तस्पर्शमात्रेणाशुद्धोऽपि श्राद्ध ईयाँ | प्रतिक्रम्य शुद्धः संपन्नः उभयोरपि न दोषावहो भविष्यति, यथा ईर्यापथिक्या प्रत्याख्यातसर्व्वसावद्यानामपि साधूनां ज्ञात्वाऽपि नदीगताने कजलादिजन्तूनां घातेनापि यत्पातकं तदप्यपाक्रियते तर्हि तथा गृहिणोऽप्यनाभोगेनापि किंचित्सचित्तस्पर्शमात्रजन्यं पातकं सुतरामपाकरिष्यते, नहि मेरुगिरिरजोऽपनोदकेन जलेन कर्करादिगतरजो नापनीयते इति स्वयमेवालोच्यमितिगाथार्थः॥८७॥
Jain Educationa International
For Personal and Private Use Only
SSIONGONIO HOIGKONG ONGC:
नधुत्तार
पूजयोः
साम्यं
॥९९॥
www.jainelibrary.org