SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१००॥ NGONGHODYO%D9%ONSHOT अथेर्याथविकल्पं निरस्य संख्या नियमोऽपि निरस्यन्नाह - एवं उत्तरे संखानिअमोऽवि साहुकप्पठिई । अण्णह कप्पविगप्पे छजिअवहो केण अवहारेओ ? ||८८ || ' एवं ' प्रागुक्तयुक्तया यथेर्या जिनाज्ञा तथा संख्यानिय मोऽपि साधुकल्पस्थितिः - जिनाशैव, न पुनः पातकत्वेनेत्यादि, अन्यथा| यद्येवं न स्यात्तर्हि कल्पविकल्पे - द्विवारादिनिषेधेऽर्थादेकवारं कल्प्यो यो विकल्पस्तत्रापि षड्जीवनिकायवधः सर्वसम्मतोऽपि केनापहतो ?, न केनापि, न चेर्यापथिकी प्रतिक्रान्त्या तत्पातकविशोधिरितिशङ्कनीयं, तथाभूतस्यापि पातकस्येर्याप्रतिक्रान्त्या व्यपगमे द्वितीयादिवारेऽपि तया तदपगमः सुलभ एव, शेषप्रायश्चित्तविधीनां च दत्ताञ्जलितापत्तेरितिगाथार्थः ॥ ८८ ॥ अथ संख्यानिय मेऽतिप्रसङ्गमाहअहवा देसिअराइअपखिअचउमासवासपडिकमणं । संखानिअयं पावं पावमए पुण्णमवि पुण्णं ॥ ८९ ॥ संख्यानियमेन यदि पातकत्वं तर्हि दैवसिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकप्रतिक्रमणानामपि पातकत्वं स्यात् तेषा - मपि संख्या नियतत्वात्, तत्रापि सांवत्सरिकप्रतिक्रमणस्य विशेषतः पातकत्वं प्रसज्येत, यतो मासमध्ये गङ्गादिनद्युत्तार उत्सग्र्गत एकवारं भणितः सांवत्सरिकप्रतिक्रमणं च संवत्सरमध्ये एकवारमिति 'पापमते' लुम्पकमते पुण्यमपि सर्वप्रतिक्रमणेषूत्तममपि | सांवत्सरिकप्रतिक्रमणं पूर्ण पापं भवेदितिगाथार्थः ॥ ८९ ॥ अथ नघुत्तारस्याप्युत्सर्गेण निषेधे सत्यपवादेन कल्प्यता भणने लुम्पकमताभिभिप्रायेण संख्यानियमोऽकिंचित्कर इति दर्शयन्नाह - Jain Education international उस्सग्गेण निसेहो अववाएणेव कप्पणिज्जं च । दोस्रुवि आणा तुला वयजुग्गं अण्णहा न हवे ॥९०॥ उत्सर्गेण निषेधः "णो कप्पति निग्गंथाण वा २ इमाओ उद्दिट्ठाओ गणिआओ वितंजिआओ पंच महण्णवाओ महानईओ अंतो For Personal and Private Use Only 001946IGOOGKOCHON नद्युत्तारपूजयोः साम्यं 1120011 www.jainelibrary.org.
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy