________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥९५॥
SONGHOSHOHORONG
पामपीति दर्शनाथों वाशब्दः, 'इमा' इति वक्ष्यमाणा नामतः प्रत्यासन्ना उद्दिष्टाः - सामान्यतोऽभिहिताः यथा महानद्य इति, गणिताः यथा पश्चेति, व्यञ्जिताः - व्यक्तीकृता यथा गङ्गेत्यादि, विशेषणोपादानाद्वा यथा महार्णवा इति, तत्र महार्णव इव या बहूदकत्वात् महार्णवगामिन्यो वा यास्ता महार्णवा महानद्यो - गुरुनिम्नगाः अन्तः - मध्ये मासस्य द्विकृत्वो वा - द्वौ वारौ त्रिकृत्वो वा - त्रीन् वारान् | उत्तरीतुं - लङ्घयितुं बाहुजङ्घादिना संतरितुं - सांगत्येन नावादिनेत्यर्थः, लङ्घयितुमेव, सकृद्धोत्तरीतुमनेकशः संतरीतुमिति, अकल्प्यता चात्मसंयमोपघातसंभवेन शबलचारित्रभावात्, यत आह- "मासभंतर तिनि अ दगलेवा उ करेमाणे "ति, उदकलेपो - नाभिप्रमाणजलावतरणमिति, इह सूत्रे कल्पभाष्यगाथा - "इमउत्ति सुतउत्ता १ उद्दि नईउ २ गणिअ पंचेव ३ । गंगादि वंजिआओ बहुदय महण्णवाओ अ ५ ।। १ ।। पंचन्हं गहणेणं सेसावि उ सूइआ महासलिला " इति प्रत्यपायाचेह - "ओहार मगराईआ, घोरा तत्थ उ सावया । सरीरो वहिमाईआ, णावतेणा व कत्थइ || १ || "त्ति, अत्र सूत्रे गङ्गादिनदीनां मासमध्ये द्विशस्त्रिशो निषेधादेकवारमेव कल्पेतेत्यर्थात्संपन्नं, सोऽपि नद्युत्तार ईर्यासंयुक्तः, तदुत्तारानन्तरमीर्यापथिकाप्रतिक्रमणं भणितं यदागमः - " हत्थसयादागंतुं गंतुं व मुहुत्तगं जहिं चिट्ठे । पंथे वा वच्चंते नहसंतरणे पडिक्कम ॥ १ ॥”ति, पूजा- जिनपूजा तुरध्याहार्यः कुसुमादिभिर्जिनपूजा तु 'तद्विपरीता' तस्मात्नद्युत्ताराद्विपरीता - विलक्षणा तद्विपरीता, संख्यानियमेर्यापथिकारहितेत्यर्थः, तन्न नद्युत्तारे पूजायां चाज्ञातुल्यता, यथा नद्युत्तारे पृथिव्यारम्भसंभवेऽपि जिनाज्ञा तथा जिनपूजायामपीत्येवंरूपेण जिनाज्ञासमता कथं ?, न कथमपीति लुम्पकाशङ्केतिगाथार्थः ।। ७९ ।।
Jain Education International
अथ प्रत्युत्तरमाह
नइउत्तारे इरिआ जं तं साहूण साहुकप्पठिई । अन्नह इरिआजुग्गं तं पावं कह णु संभवई १ ||८०||
For Personal and Private Use Only
ONG
• DOG CH
पूजाप्रति
मादिसिद्धिः
॥९५॥
www.jainelibrary.org.