________________
श्रीप्रवचन- शुभवस्तुजातमन्तरेणासंभविनीत्यनन्यगत्यैव पुष्पादिसचित्तद्रव्योपयोगः, न च तथा यागे पशुवधोऽनन्यगत्या सिद्धः, यतः सा
पूजाप्रति परीक्षा पशुवधः किमभीष्टदेवतामूर्त्यर्थं किंवा तत्पूजाद्यर्थ उत सांसारिकसुखप्राप्त्यर्थमथवा देवविशेषतुष्ट्यर्थ मोक्षार्थ वा ?, नाद्यः प्रत्यक्ष- मादिसिदिर ८ विश्रामे
बाधात् , नहि कोऽपि पशुचर्मास्थिमांसादिद्रव्येणाभीष्टदेवतामूर्ति कुर्वाणो दृष्टः श्रुतो वा, किंतु जैनवत् पार्थिवद्रव्येणैव, नापि द्वितीय॥११॥
स्तादृगशुभाशुचिद्रव्येण देवपूजाया असंभवात् तथा प्रवृत्तेरप्यभावाच्च, हरिहरब्रह्मादिमूर्तीनां पूजाया अपि स्रश्चन्दनादिनैव दृश्यalमानत्वात् , नापि तृतीयो विकल्पो जल्पनाहः, यागे हि सांसारिकसुखप्राप्त्यर्थ क्रियमाणे मृगयावद्यागोऽपि संपन्नः, व्याधेन मृग
यायां मृगादिवधोऽपि सांसारिकसुखप्राप्त्यर्थमेव क्रियते, चतुर्थे यस्य देवविशेषस्य निमित्तं हता एव पशवस्तुष्टिहेतवो भवन्ति, सच देवविशेषो मनुष्यजातिष्विव देवजातिषु व्याधचण्डालाद्यधमजनकल्पः, अत एव हरिहरदिवाकरादिमूर्तीनां पुरस्तान पशुवधस्तेषामपि सम्मतः, तन्मतेऽपि विष्णुप्रभृतीनां देवेषूक्तत्वात् , तस्मात्तस्य तुष्टिनिमित्तं हताः पशवो महानेवाधर्मोऽतो यागोऽपि तज्जन्यो नरकादिहेतुरेवेति कथं तदर्थ हताः पशवोऽनन्यगत्येत्यायुक्तं सम्यग्?, नापि पञ्चमो 'ज्योतिष्टोमेन वर्गकामो यजेते त्यादिवाक्यैरेख यागस्य मोक्षसाधनत्वेनानभ्युपगमात् , नन्वास्तां यागः, परं यथाऽन्यतीर्थिकः खखाभिमतहरिहरदिवाकरलम्बोदरादिदेवानां प्रासादप्रतिमापूजादिकं पृथिव्याघारम्मेणैव क्रियते तथा जैनैरपि जिनेन्द्राणां प्रासादप्रतिमापूजादिकं विधीयते, तथा च कोऽनयो| विशेष इति चेद् अहो भ्रान्तत्वं भवतः, यतो जिनेन्द्रमूर्तिर्जिनेन्द्रविकल्पेन कृता सती जिनेन्द्रस्मृतिहेतुः, हरिहरादिमूर्तिस्तु तद्विक
ल्पनेन निर्मापिता तेषामेव स्मृतिहेतुरित्येवं महत्यन्तरे सत्यपि विशेषाभावं पश्यसि, किंच-विशेषाभावोऽपि सर्वप्रकारेण साधजादुत चैतन्यराहित्यपार्थिवद्रव्यनिष्पन्नत्वपुष्पादिपूज्यत्वादिलक्षणेन केनचिदन्यतमेन धर्मेण वा?, आये प्रत्यक्षबाधात् , नामा
SONGHORGROROROUSHORO:
HOMGHOUGHOUGHOROLOGHOGHORA
Jan Education intomation
For Personal and Private Use Only
www.jinyong